संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

उत्तराखण्डसंस्कृत-अकादमीद्वारा
जनपदस्तरीया अन्तर्जालीया व्याख्यानमाला समायोज्यते

• 13 जनपदेषु 24 फरवरी 2023 त: 05 मार्च 2023 दिनांकं यावत् सम्पत्स्यते व्याख्यानमाला। • अकादम्या: सचिववर्येण श्रीशिवप्रसादखालीवर्येण व्याख्यानाय जनपदसंयोजका: विनिर्दिष्टा:

उत्तराखण्डसंस्कृत-अकादमी संस्कृतस्य प्रचाराय, अनुसन्धानस्य विस्ताराय, संस्कृतसाहित्ये निहितं ज्ञान-विज्ञानं समाजे प्रस्तुतं च उद्दिश्य राज्यस्य १३ जनपदेषु ई-व्याख्यानस्य आयोजनं करिष्यति । व्याख्यानस्य सफलसञ्चालनार्थं प्रत्येकस्मिन् जनपदे अकादमीसचिववर्येण श्रीशिवप्रसादखालीवर्येण जनपदसंयोजका: नियुक्ताश्च निर्देशिता: अपि । जनपदसंयोजकद्वारा व्याख्यानानां सफलायोजनाय प्रत्येकस्मिन् जनपदे 24 फरवरी 2023 तः 05 मार्च 2023 पर्यन्तं प्रातः 11:00 वादनतः अपराह्णे 2:30 वादनपर्यन्तं ई-व्याख्यानश्रृङ्खला संजायते । संयोजका:21.02.2023 दिनाङ्कपर्यन्तं व्हाट्सएप्प-समूहे राज्यसंयोजक/अकादमी-व्याख्यानमालायां स्वस्य जनपदस्य निर्धारिततिथिः, समयः विषयः इत्यादयः प्रेषयिष्यन्ति।

व्याख्यानश्रृङ्खलायाः समाप्तेः अनन्तरं जिलासंयोजकस्य कृते अनिवार्यं यत् सः ई-माध्यमेन अकादमीं प्रति निर्धारितप्रपत्रेषु वांछितविवरणं 09 मार्च 2023 दिनांकं यावत् उपलब्धं कारयेच्च अनन्तरं विलम्बेन प्राप्तविवरणानां उत्तरदायित्वं सम्बन्धितजिल्लासंयोजकस्य स्वयमेव भविष्यति।

व्याख्यानमालाया: अन्तर्गतं “संस्काराणां वैशिष्ट्यं वर्तमाने प्रासंगिकताविषये व्याख्यानं” मूलविषयरूपेण निर्धारितम् अस्ति । यद्यपि सामान्यतया षोडशसंस्काराः सन्ति, परन्तु महर्षिगौतमेन ४८ संस्काराः चर्चिता: इति अपि प्रसिद्धम् ।

अतः वर्तमानकाले 48 संस्कारस्य विशेषताः प्रासंगिकता चेत्यस्मिन्विषये 13 जनपदेषु व्याख्यानस्य आयोजनं निर्धारितम् अस्ति। जनपदेषु व्यवस्थितरूपेण कार्यक्रमस्य आयोजनार्थं सहसंयोजकरूपेण एकं तकनीकीविशेषज्ञं (ई-सूचनापत्रं, गूगलपृष्ठं, गूगलमीट् इत्यादीनि निर्मातुं समर्थः) नामाङ्कितः भविष्यति।

व्याख्यानमालायां प्रचारं कर्तुं सूचनापत्रेण दैनिकपत्रिकासु तथा सामाजिकमाध्यमेन (फेसबुक, इन्स्टाग्राम, व्हाट्सएप्प)इत्यादिमाध्यमेन समाचारा: अपि प्रकाशनीया: ।

बहुरङ्गेन ई-आमन्त्रणपत्रस्य निर्माणं, व्याख्यानमालायाः तिथिः, समयः, विषयः, मुख्यवक्ता, कार्यक्रमाध्यक्षः, मुख्यातिथिः इत्यादयः निर्धारयितुं तथा च व्याख्यानमालायाः कृते Google Meet लिङ्कंनिर्माणं समयनिर्धारणम् च जनपदसंयोजकेन विधीयते। तथा च कार्यक्रमस्य अध्यक्षतायै ई-माध्यमेन जनप्रतिनिधिः, अधिकारिणः, गणमान्यजनाः विद्वान् च आमन्त्रिताः भविष्यन्ति, मुख्यातिथिः मुख्यवक्ता च विशेषतया च भारतस्य कस्यापि राज्यस्य मुख्यवक्ता यः वेद-धर्मशास्त्रादिविशेषज्ञः वैज्ञानिकतया भवितुं शक्यते च समाजस्य पुरतः स्थापिताः भवन्तु। मुख्यवक्तुः शोधपत्रं अवश्यं प्राप्तव्यम् इत्यपि निर्दिष्टवान् सचिववर्य: ।
व्याख्यानमालायाः योजनायै नियतव्ययविवरणं
व्याख्यानमालायाः समाप्तेः अनन्तरं ई-माध्यमेन (दूरभाषसङ्ख्या 9634343122 अथवा [email protected]) लिखितविवरणं निर्धारितस्वरूपे PDF रूपेण 09 मार्च 2023 दिनाङ्के अकादमीकार्यालयं प्रति 12 मार्चपर्यन्तं प्रदातव्यमिति। तत्र (क) प्रगतिप्रतिवेदनं (तिथिः, अतिथिवक्ता, गणमान्यजनाः इत्यादयः), (ख) मुख्यवक्ता, संयोजकः सहसंयोजकः च वित्तकोषविवरणम्। (ग) मुख्यवक्तु: प्राप्तशोधपत्रं (घ) उपस्थितगणमान्यजनानां सूची (ङ) प्रकाशितसमाचारपत्रं
अनन्तरं मुख्यसभापति:, जनपदसंयोजक: तथा सहसंयोजक: इत्यादिषु निर्धारितं मानदं प्रमाणपत्रं ई-माध्यमेन दीयते।

अथ च विशिष्टनिर्देशोयं यत् वित्तीयवर्षस्य मार्चमासस्य दृष्ट्या 09.03.2023 दिनाङ्कस्य अनन्तरं विवरणानां विलम्बेन प्राप्तेः उत्तरदायी स्वयमेव भविष्यति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button