उत्तराखण्ड

हिन्दीसंस्कृतशिक्षणमञ्चेन राज्यशिक्षकसङ्घाय संस्कृतम् अनिवार्यं कर्तुं च विभिन्नसमस्यां निवारयितुं ज्ञापनं प्रदत्तं।

उत्तराखण्डं। हिन्दीसंस्कृतशिक्षणमञ्चस्य प्रान्तीयसंयोजक: बालादत्तशर्मा समर्पितमित्रै: सह राज्यशिक्षकसङ्घस्य पदाधिकारिभ्य: संस्कृतम् अनिवार्यं कर्तुं च विभिन्नसमस्यां निवारयितुं च वार्तां कृत्वा ज्ञापनं दत्तवान् । छात्राणां कृते गुणवत्तापूर्णसंस्कृतशिक्षां सुनिश्चित्य, भाषा-संस्कृतपदानां पुनर्स्थापनार्थं, हिन्दी-शिक्षकाणां शोषणस्य समाप्त्यर्थं तेषां हिताय संस्कृतहिताय च संस्कृतछात्राणां हिताय हिन्दीसंस्कृतशिक्षणमञ्चः संरचितोस्ति । विदितम् अस्ति यथा शिक्षकहिताय राज्ये राज्यशिक्षकसङ्घ: वर्तते। तथैव हिन्दीसंस्कृतशिक्षणमञ्च: हिन्दीसंस्कृताध्यापकानां हिताय वर्तते। प्रान्तीयाध्यक्षाय श्रीरामसिंहचौहानाय च प्रान्तीयमहामन्त्रिणे श्रीरमेशपैनुलीवर्याय छात्राणां कृते गुणवत्तापूर्णसंस्कृतशिक्षां सुनिश्चित्य, भाषा-संस्कृतपदानां पुनर्स्थापनार्थं, हिन्दी-शिक्षकाणां हिन्दी-शिक्षकाणां शोषणस्य समाप्त्यर्थं हिन्दीसंस्कृतशिक्षणमञ्चस्य संयोजकेन बालादत्तशर्मवर्येण ज्ञापनं प्रदत्तं।

प्रान्तीयसंयोजकेन समर्पितमित्रै: ज्ञापनं प्रदाय वार्तालाप: अपि विहित: । तेषां विहितवार्तासु च सन्ति यत् वयं सकारात्मकाः स्मः। भवद्भिः सर्वैः अनुरोधः क्रियते यत् सर्वेषु शिक्षकसमूहेषु १२ कक्षापर्यन्तं संस्कृतविषयं अनिवार्यं कृत्वा एलटी इत्यत्र तथा व्याख्याता पदं निर्मीयताम्, उच्चविद्यालये केवलं तृतीयभाषा संस्कृतं षष्ठविषयत्वेन योजयितुं न्यायपूर्णं भवतु इति तथा च लज्जां वा उदासीनतां त्यक्त्वा तान् पुनः पुनः उत्थापयन्तु च कथं वयं हिन्दीं, संस्कृतं प्रति उदासीनाः अथवा कृतघ्नाः भवेम, यस्मात् कारणात् वयं माननीयं जीवनं यापयामः, या भाषा अस्मान् मातृवत् पोषयति? तस्या: सम्मानाय वयं प्रयत्नं कुर्म: ।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button