संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

उत्तरप्रदेशे जन्मजातहृदयरोगेण पीडिताः नवजातशिशवः अधुना न म्रियन्ते

सलोनी–हार्ट–संस्थायाः संस्थापिका अध्यक्षा च मुख्यमन्त्रिणा योगिना आदित्यनाथेन सह मिलितवन्तौ

• सञ्जयगान्धिस्नातकोत्तर–आयुर्विज्ञानसंस्थाने बालचिकित्सालयस्य निर्माणे सहयोगं करिष्यति संस्था ।

लखनऊ। प्रदेशे जन्मजातहृदयरोगेण पीडिताः नवजातशिशवः अधुना न म्रियन्ते । अस्मिन् विषये मुख्यमन्त्री योगी आदित्यनाथः सञ्जयगान्धिस्नातकोत्तर–आयुर्विज्ञानसंस्थाने बालचिकित्सालयं स्थापयितुं निर्दिष्टवान् । सः अवदत् यत् राज्ये बहुसङ्ख्यकाः बालकाः हृदयरोगेण सह जायन्ते । एतेषु बहवः शिशवः प्रथमवर्षे एव हृदयरोगस्य शल्यक्रियायाः आवश्यकताम् अनुभवन्ति । एतेषु बहवः शिशवः चिकित्सायाः अभावात् म्रियन्ते। एतत् मनसि कृत्वा सञ्जयगान्धिस्नातकोत्तर–आयुर्विज्ञानसंस्थाने शीघ्रमेव बालहृदयविज्ञानस्य उत्कृष्टतायाः केन्द्रस्य स्थापना करणीया ।

प्रदेशे प्रचलति निवेशसम्मेलनस्य मध्ये मुख्यमन्त्रिणा सह मिलित्वा देशविदेशयोः उद्यमिनः विकासोन्मुखयोजनासु निवेशं कुर्वन्ति । अपरपक्षे मुख्यमन्त्री योगी अपि एतादृशानाम् उद्यमिनां स्वागतं कुर्वन् अस्ति, ये प्रदेशस्य स्वास्थ्यसेवाः अधिकं सुदृढां कर्तुम् इच्छन्ति । अस्मिन् प्रकरणे अमेरिकादेशस्य सलोनी–हार्ट–संस्थायाः संस्थापिका अध्यक्षा च मृणालानीसेठी तस्याः पतिः हिमान्शुसेठी च रविवासरे मुख्यमन्त्रिणं मिलितवन्तौ । समागमे सलोनी–हार्ट–संस्थायाः संस्थापिकया सह मुख्यमन्त्री सञ्जयगान्धिस्नातकोत्तर–आयुर्विज्ञानसंस्थाने जन्मजातहृदयरोगेण पीडितानां शिशवानां कृते बालचिकित्सालयस्य स्थापनां कर्तुं पृष्टवान्, तदर्थं पञ्चशतकोटिरूप्यकाणां निवेशस्य इच्छा च प्रकटितवान् ।

मुख्यमन्त्री सलोनी–हार्ट–संस्थायाः प्रस्तावस्य स्वागतं कृत्वा सर्वकारस्य सर्वविधसहकार्यस्य आश्वासनं दत्तवान् । प्रस्तावस्य अन्तर्गतं सलोनी–हार्ट–संस्था प्रारम्भिकचरणस्य त्रिंशत् शय्याभिः सह मात्रकस्य आरम्भं करिष्यति । सफलकार्यन्वयनानन्तरं द्वितीयचरणस्य शतशय्याः, तृतीयचरणस्य द्विशतशय्याः च यावत् अस्य मात्रकस्य विस्तारः भविष्यति । प्रतिवर्षम् अस्मिन् रोगे पीडितानां पञ्चसहस्राणां बालकानां शल्यक्रिया, दशसहस्राणां बालकानां चिकित्सा च अत्र सम्भवः भविष्यति । अस्य मात्रकस्य पूर्णतया कार्यानुष्ठानानन्तरं सलोनी–हार्ट–संस्था अपि काशीहिन्दूविश्वविद्यालयेन सह मिलित्वा अन्यस्य एकस्य मात्रकस्य अपि निर्माणं करिष्यति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button