उत्तराखण्ड

राज्यस्य १ सहस्रं १२४ विद्यालयेषु आधुनिकवर्गाः सज्जीकृताः भविष्यन्ति

नूतनशैक्षणिकसत्रात् २०० विद्यालयेषु सप्तव्यावसायिकपाठ्यक्रमाः आरभ्यन्ते

राज्यस्य १ सहस्रं १२४ विद्यालयेषु आधुनिकवर्गाः सज्जीकृताः भविष्यन्ति तथा च संकरमाध्यमेन बालकानां पाठनं भविष्यति। एतेन सह नूतनशैक्षणिकसत्रात् २०० विद्यालयेषु सप्तव्यावसायिकपाठ्यक्रमाः आरभ्यन्ते। शिक्षामन्त्री डॉ. धनसिंहरावत इत्यनेन देहरादूननगरे समाग्रशिक्षायाः सभायां उक्तम्। सः अवदत् यत् सम्प्रति राज्ये ५०० विद्यालयेषु आभासीवर्गाः प्रचलन्ति, यदा तु शीघ्रमेव ३४० विद्यालयेषु आभासीवर्गाः आरभ्यन्ते। शिक्षामन्त्री सूचितवान् यत् नूतनशैक्षणिकसत्रात् राज्यस्य २०० विद्यालयेषु कृषि, वाहन, सूचनाप्रौद्योगिकी, इलेक्ट्रॉनिक्स तथा हार्डवेयर, सौन्दर्य तथा कल्याण, पर्यटन तथा आतिथ्य तथा प्लम्बर इत्यादिभिस्सह सप्तव्यावसायिक पाठ्यक्रमाः संचालिताः भविष्यन्ति । अस्मात् पूर्वमपि २०० विद्यालयेषु अष्टौ व्यावसायिककार्यक्रमाः प्रचलन्ति, येषु १८ सहस्राणि ३०० बालकाः प्रशिक्षिताः सन्ति । डॉ. रावतः विभागीयाधिकारिभ्यः निर्देशं दत्तवान् यत् समग्रशिक्षायाः अन्तर्गतं मार्च २०२३ पूर्वं प्रतिनियुक्ति-आउटसोर्सिंग्-माध्यमेन राज्य-जिल्ला-स्तरयोः दीर्घकालं यावत् रिक्त-विविध-वर्गस्य पदं पूरयन्तु इति ।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button