हिमालयीयायुर्वेदिकमहाविद्यालये संहितासिद्धान्तसंस्कृतविभागद्वारा संस्कृतदिवसमुपलक्ष्य संस्कृतदिवसाचरणं समनुष्ठितम्

सर्वादौ ज्येष्ठाः वैद्याः दीपं प्रज्वाल्य पुष्पार्चनं कूतवन्तः। वैद्यकीयाः छात्राश्च श्री गणेशं स्मृत्वा धन्वन्तरिवन्दनामकुर्वन् । संस्कृतदिवसस्य प्रास्तविकभाषणे कार्यक्रमसंयोजकः डा नवीन जसोला समुपस्थितानामतिथिनां परिचयं, स्वागतमभिनन्दनं च व्याहरन् प्रोक्तवान् यत् संस्कृतभाषा भारतस्य प्राणः। इयं न केवलमायुर्वेदस्य मूलमपितु सर्वशास्त्राणां ,सर्वविद्यानां, सर्वकलानां, सर्वसंस्काराणां ज्ञानविज्ञानानां च मूलाधारः। अनया भाषया एव विविधपरम्पराणां संरक्षणं शक्यम्। तेनोक्तं यत् संस्कृतं सम्भाषणविधिना अतीव रुचिकरं सरलं च भवति। भारतीयज्ञानपरम्परायाः बोधश्च संस्कृतेन भवतीति।

इतः परं स्निग्धाभव्यौ सांस्कृतिककार्यक्रमं सुष्ठुरीत्या सञ्चालयन्तौ कार्यक्रमविवरणमुद्घोषितवन्तौ। तत्र प्रप्रथमं प्रथमवर्षीया छात्रा साक्षी अतिमधुरं गणपतिस्तोत्रं प्रस्तुतवती।
आदर्शः, आदित्यः अन्ये च *वैद्यरोगिसम्भाषणमिति* हास्यरसान्वितस्यातिलघुनाटकस्य मञ्चनं कृतवन्तः। छात्रा विनती मधुरस्वरोपेतं *मधुराष्टकं* गीतवती। सृष्टिः,चारु,चाँदनी विनती, वन्दना, तनु तनिष्का, खुशबु रिया, आदयः सामूहिकं स्वरबद्धं *धीवरगानं* गीतवत्यः ।

चञ्चल-आरुषि वासुदेवश्च *पायसप्रहसनमित्याख्यं* लघुहास्यनाटकमभिनीतवन्तः।
मध्ये स्पर्शहिमालय विश्वविद्यालयस्य संस्कृतविभागस्य शिक्षकः डा सुभाषबडोलावर्यः संस्कृतं सर्वासां भाषाणां जननीति व्याहरन् छात्रेभ्यः शुभदिनस्य शुभकामनामयच्छत्।
ततः आर्यन् परिक्षितोऽनुरागैश्च *शिवताण्डवस्तोत्रं* प्रस्तुतम्।

अथ पुनः स्पर्शहिमालय विश्वविद्यालयस्य संस्कृतविभागस्य शिक्षकः साहित्यसङ्गीतादिकलासु प्रवीणः डा आनन्दमोहनजोशिवर्यः संस्कृतस्य महत्वं आवश्यकतां प्रतिपाद्य स्वरतालबद्धोपेतम् अत्यन्तं श्रुतिमधुरं च *नैव क्लिष्टा न च कठिना* इति गीतमगायत्।

कार्यक्रमस्यान्ते प्रतिभागिनः पुस्कृताः।
समागतानां धन्यवादज्ञापनं डा पङ्कजः अकरोत्
समोरोपकाले सृष्टिः शान्तिमन्त्रं पठितवती।

अस्मिन् अवसरे संहिता सिद्धान्त एवं संस्कृतविभागस्य आचार्यः वैद्यः अजीत कुमारः वैद्या दीक्षा तिवारी, क्रियाशरीरविभागस्य वैद्या अपेक्षा नेगी, वैद्या काव्या काला, वैद्या कल्पना , अगदतन्त्रविभागस्य वैद्यः सत्येन्द्रः, रचनाशरीरविभागस्य वैद्यः पङ्कजः वैद्या वैशाली, डा आरती डा गरिमा उपस्थिताः आसन्। छात्रेषु शुभमः, आशीषः, आराध्यः शिवानी श्रेया वर्णिका हर्ष चन्द्रः, दिव्यांशी, मिताक्षरा आदयः उपस्थिताः आसन् ।







