संस्कृतछात्रप्रतिभासम्मानस्य 2024-25 वर्षस्य 10,12 कक्षयो: 24 मेधावी- छात्र-छात्राः मुख्यमन्त्रीधामीद्वारा सम्मानिताः अभवन्
261 संस्कृतछात्र-छात्राणां अभवत् सम्मानं , संस्कृतछात्रप्रतिभासम्मानस्य 2024-25 वर्षस्य दशमकक्ष्यायाः च द्वादशकक्ष्यायाः च 24 मेधावी छात्र-छात्राः सम्मानिताः अभवन्, 148 छात्र-छात्राणां डॉ. भीमरावाम्बेडकर- अनुसूचितजाति-जनजाति- संस्कृतछात्रवृत्ति:, 89 छात्राः गार्गीसंस्कृतबालिकाछात्रवृत्तिद्वारा समलंकृता:

उत्तराखण्डराज्यस्य मुख्यमन्त्री श्री पुष्करसिंहधामिना मुख्यमन्त्रीनिवासे स्थिते मुख्यसेवकसदने संस्कृतशिक्षाविभागेन आयोजिते विशेषे कार्यक्रमे संस्कृतशिक्षायाः संवर्धनं प्रति समर्पितं महत्त्वपूर्णं निर्णयं कृतम्। अस्मिन अवसरः 261 छात्र-छात्राणां सम्मानं कृतम्।

मुख्यमन्त्रिणा संस्कृतछात्रप्रतिभासम्मानस्य 2024-25 वर्षाय आयोजिता योजनायाः अन्तर्गतं दशमकक्ष्यायाः च द्वादशकक्ष्यायाः च 24 मेधावी छात्र-छात्राः सम्मानिताः। यत्र प्रथम, द्वितीय, तृतीय स्थानेषु क्रमशः ₹5100, ₹4100, ₹3100 रूप्यकाणि पुरस्काररूपेण प्रदत्तानि।

डॉ. भीमरावाम्बेडकर-अनुसूचितजाति-जनजाति- संस्कृतछात्रवृत्तियोजनाया: अन्तर्गतं 148 छात्र-छात्राणां छात्रवृत्तिः प्रदत्ता। तथा गार्गीसंस्कृतबालिकाछात्रवृत्तियोजनाया: अन्तर्गतं 89 छात्राः छात्रवृत्त्या समलङ्कृताः।
मुख्यमन्त्रिणा उक्तं यत् उत्तराखण्डसर्वकार: संस्कृतस्य संरक्षणं संवर्धनं च निरन्तरं कुरुते। संस्कृतविद्यालयेषु पठमानानां बालिकानां प्रोत्साहनाय प्रथमतः गार्गीसंस्कृतबालिका छात्रवृत्तियोजना प्रारब्धा। अस्याः योजनायाः अन्तर्गतं संस्कृतविद्यालयेषु पठमानाः सर्ववर्गीयाः बालिकाः ₹3012 रूप्यकाणि वार्षिकछात्रवृत्तिरूपेण लभन्ते। अनुसूचितजाति-जनजाति छात्रवृत्तियोजनायाः अन्तर्गतं अपि ₹3012 रूप्यकाणि वार्षिकछात्रवृत्तिरूपेण दत्तानि।
संस्कृतशिक्षायाः प्रोत्साहनार्थं प्रदेशस्य त्रयोदश जनपदेषु संस्कृतग्रामाः स्थापिताः भवन्ति। उत्तराखण्डसंस्कृतअकादम्या अखिलभारतीयशोधसम्मेलनः, अखिलभारतीयज्योतिषसम्मेलनः, अखिलभारतीयवेदसम्मेलनः, संस्कृतछात्रप्रतियोगिताः, कौशलविकासप्रशिक्षणकार्यशालाः च आयोजिताः भवन्ति।
मुख्यमन्त्री श्री पुष्करसिंहधामिनः उक्तवान् यत् प्रधानमन्त्री नरेंद्रमोदी महोदयस्य नेतृत्वे भारतं स्वस्य प्राचीनसंस्कृतिं संरक्षणाय संवर्धनाय च संकल्पबद्धं वर्तते। उत्तराखण्डप्रदेशोऽपि नवीनायामान् स्थापयन् नूतनविकासपथं दर्शयति। उत्तराखण्डीयप्रवासीजनाः अपि स्वभूमेः प्रगतिं दृष्ट्वा गर्विताः भवन्ति।
अस्मिन विशिष्टे कार्यक्रमे कैबिनेटमन्त्री श्री गणेशजोशी, विधायक: श्रीमती सरिताकपूर:, संस्कृतशिक्षासचिवः श्री दीपककुमारगैरोला, निदेशकः श्री आनन्दभारद्वाज: च उपस्थिताः आसन्।







