अमरहुतात्मा स्वामिश्रद्धानन्दः

स्वामिश्रद्धानन्दस्य जन्म क्रीस्तशके षट्पञ्चाशतोत्तरअष्टादशशतकस्य फरवरीमासस्य द्वाविंशति दिनाङ्के पंजाबप्रान्तस्य जालन्धरजनपदान्तर्गते तलवानग्रामे अभवत्। महोदयस्य बाल्यावस्थायाः नाम मुंशीरामः आसीत्। जीवनस्य आरम्भिक-काले तु मुंशीरामः ईश्वरस्य अस्तित्वे न विश्वासति स्म। तस्य जीवने अनेकाः दुर्व्यसनाः अपि आसन्। परन्तु एकदा बरेलीनगरे महर्षिदयानन्दस्य प्रवासावसरे मुंशीरामः अपि महर्षिदयानन्दस्य प्रवचनं श्रुतवान्। प्रवचनान्तरं मुंशीरामस्य महर्षिदयानन्देन सह ईश्वरस्य अस्तित्वस्य विषये चर्चा अपि अभवत्। महर्षिदयानन्दस्य तर्कान् श्रुत्वा सः तेषां समक्षं समर्पणं कृतवान्। तदारभ्य सः दृढ़-ईश्वरभक्तः वैदिक-धर्मस्य प्रचारकश्च जातः।
महर्षिदयानन्दस्य महाप्रयाणोऽपारान्तं मुंशीरामेण स्वस्य समर्पणं स्वदेश-शिक्षा-भाषा-संस्कृति-स्त्रीकल्याण-दलितोद्धाराय च कृतम्। अधुना सः सामाजिकेषु कार्येषु सक्रियभूमिकायां कार्यस्य प्रारम्भं कृतवान्। तेषाम् उपरि गृहस्य दायित्त्वानि अपि सन्ति। परन्तु ते सामाजिकजीवने पारिवारिकजीवने च सामञ्जस्यं कृत्वा कार्यम् अकुर्वन्।
तस्मिन् समये भारते आङ्गल-विद्यालयाः चलन्तः आसन्। तेषु विद्यालयेषु पश्चिमी-शिक्षायाः महत्त्वम् अधिकम् आसीत्। तत्र ईसाई-मतस्य अपि प्रचारं भवति स्म। एतत् दृष्ट्वा स्वशिक्षायाः संस्कृतेश्च उत्थानाय ते एकोत्तपनवदशशतके हरिद्वारस्य काङ्गडीग्रामे गुरुकुलस्य स्थापनां कृतवन्तः। क्रीस्ते सप्तदशाधिकनवदशशतके मुंशीरामः संन्यासं स्वीकृत्य स्वामिश्रद्धानन्दः इति नाम्ना विख्यातो जातः।
स्वाधीनतायाः आन्दोलने अपि स्वामीश्रद्धानन्दस्य योगदानम् अविस्मरणीयं अस्ति। नवदशाधिकनवदशशतके स्वामीश्रद्धानन्दः देहलीस्थिते जामा-मस्जिदतः एकां विशालजनसभां संबोधितवान्। स्वामिमहोदयेन स्वस्य जीवनकाले स्त्रीशिक्षायाः कृते अपि महत्त्वपूर्णानि कार्याणि विहितानि।
एकोनविंशोत्तरनवदशशतके दिसम्बरमासे अमृतसरे चतुश्त्रिंशततमे काङ्ग्रेसअधिवेशने स्वामीश्रद्धानन्देन स्वागतसमित्याः अध्यक्षरूपेण स्वउद्बोधनं हिन्दीभाषायां दत्तम्। ते हिन्दीभाषायां अर्जुन इति नाम्ना एकस्य पत्रस्य प्रकाशनम् अपि अकुर्वन्।
स्वामी श्रद्धानन्दः शुद्धि-आन्दोलन्य प्रणेता आसीत्। आर्यसमाजस्य माध्यमेन स्वामिना असंख्यजनानां पुनः वैदिक-सनातनधर्मे प्रवेशः कारितम्। षड्विंशत्याधिकनवदशशतकस्य दिसम्बरमासस्य द्वाविंशति दिनाङ्के नयाबाजारस्थितस्य स्वामिश्रद्धानन्दस्य आवासे एकः अब्दुलरशीदः नामकः उन्मादियुवकः धर्मचर्चायाः व्याजेन तेषां प्रकोष्ठे प्रविष्ट्य स्वामिश्रद्धानन्दस्य हत्याम् अकरोत्। स्वामिश्रद्धानन्दस्य बलिदानं देशस्य कृते एका अपूर्णया क्षतिः आसीत्।
डॉ. राहुलः-सहायकाचार्यः
संस्कृत-विभागः
पंजाबी-विश्वविद्यालयः,पटियाला







