अटल-उत्कृष्ट-राजकीय-इंटर-कॉलेज-कण्वघाटी-विद्यालयस्य छात्राणां लैंसडौनशैक्षिकभ्रमणम्

बुधवासरे कण्वनगरीकोटद्वारस्य अटल-उत्कृष्ट-राजकीय-इंटर -कॉलेज-कण्वघाटी-विद्यालयस्य दशमैकादशकक्षायो: छात्राः लैंसडौननगरं शैक्षिकभ्रमणाय आगताः। अस्य भ्रमणस्य मुख्यः उद्देश्यः छात्राणां ऐतिहासिक-सांस्कृतिक-प्राकृतिक-धरोहराणां परिचयः आसीत्।
भ्रमणस्य कालखण्डे छात्राः संजयसाहीगार्डन्, विक्टोरियाक्रॉस्- स्मारकः, वीरदरवानसिंहसंग्रहालयः, संतमैरीचर्चः, संतजॉन्चर्चः, भुल्लातालाश्च इत्यादीनि स्थलानि दृष्टवन्तः।
वीरदरवानसिंहसंग्रहालये छात्राः “गढ़वाल-रेजिमेंट” इत्यस्य गौरवशालिन: इतिहासस्य विभिन्नां पक्षाणां ज्ञानं प्राप्तवन्तः। ते सेनाद्वारा उपयोगे स्थितानां आयुधानां, सैन्य अभियानानां, वीरतापदकानां, तथा गढ़वालप्रदेशस्य समृद्धानां सांस्कृतिक-प्राकृतिक-धरोहराणां विवरणं मनःपूर्वकम् अवलोकितवन्तः।
भ्रमणस्य समये छात्राः लैंसडौननगरीयानां हरित-शोभायुक्तप्रवाहादीनां तथा शान्तवातावरणस्य अनुभवमपि कृतवन्तः। प्राकृतिकसौन्दर्यं सर्वेषां मनांसि आकर्षितम्। छात्राः शैक्षिकभ्रमणं अत्यन्तं प्रेरणादायकं ज्ञानवर्धकं च इत्युक्तवन्तः।
अस्य अवसरस्य साक्ष्ये विद्यालयस्य प्रधानाचार्यः डॉ. आर. के. कुकरेती, शिक्षकाः अशोकः कुमारः, राकेशः मोहनध्यानी, उमेशः चन्दः, नरेन्द्रः सिंहः, अमृतः पालः सिंहः, विकासः च, तथा शिक्षिकाः कविता बिष्टरावत:, संगीता राणा च उपस्थिताः अभवन्।
प्रधानाचार्यः डॉ. आर. के. कुकरेती महोदयः अवसरेस्मिन्
अवदत् यत् शैक्षिकभ्रमणं छात्राणां कक्षायाम् अधिगमं व्यावहारिकजीवनं च संलक्ष्य लाभं कुर्वन्ति। भविष्ये अपि एषः प्रकारः शैक्षिकयात्राणां आयोजनं करणीयमिति ते न्यवेदयन्।
अस्या: यात्रायाः समये छात्राः केवलं नूतनं ज्ञानं प्राप्तवन्तः अपितु सामूहिककार्यस्य अनुशासनस्य च महत्वम् अपि अवगच्छन्। सर्वे यात्रां सफलतायै सहयोगं दत्तवन्तः।







