संस्कृतशिक्षासचिवस्य दीपकगैरोलावर्यस्य तथा सहायकनिदेशकस्य त्रिहरीगढ़वालत: पूर्णानन्दभट्टमहोदयस्य अभवत् भव्यस्वागतं
ऋषिकेशस्थे मुनिकीरेतीत्रिहरीगढ़वाले उत्तराखण्डस्य संस्कृतशिक्षासचिवः, आदरणीयः दीपकगैरोला सहैव सहायकनिदेशकः पूर्णानन्दभट्ट: इत्यनयो: विद्यालये आगमनसमये छात्रैः, प्रबन्धनव्यवस्थाप्रमुखै:, शिक्षकैः च हार्दिकं स्वागतं कृतम्। अवसरेत्र विद्यालये विशेषसमारोहस्य आयोजनं सञ्जातं। यत्र छात्रै: सांस्कृतिककार्यक्रम: प्रस्तुत: । प्रबन्धनप्रमुखै: तथा शिक्षकै: दीपकगैरोलावर्यस्य एवं पूर्णानंदभट्टवर्यस्य पुष्पगुच्छेन एवं अंगवस्त्रप्रदानेन स्वागतं कृतं ।
अस्मिन् कालखण्डे छात्राः संस्कृतश्लोकानां पाठं कृत्वा स्वगुरुणां प्रेरणया संस्कृतस्य महत्त्वं प्रदर्शितवन्तः , दीपकगैरोला छात्राणां शिक्षकाणां च प्रयत्नस्य प्रशंसाम् अकरोत् तथा च संस्कृतशिक्षाक्षेत्रे नूतनानां ऊर्ध्वतां प्राप्तुं प्रेरितवान् सः शिक्षाक्षेत्रे नवीनतायाः परम्परायाः च सन्तुलनस्य आवश्यकतायाः उपरि बलं दत्तवान्। श्रीपूर्णानन्दभट्ट: अपि छात्रान् संस्कृतस्य अध्ययने उत्कृष्टतां प्राप्तुं तथा च शिक्षायाः महत्त्वस्य विषये संयुक्तीकृतदृष्टिकोणानां माध्यमेन समाजे संस्कृतस्य धरोहरस्य संरक्षणं कर्तुं प्रेरितवान् ।
अवसरेस्मिन् श्री मुकेशबहुगुणा, सत्येश्वरप्रसादडिमरी, डॉ. कमलडिमरी, डॉ. सुशीलकुमारनौटियाल:, आशीषजुयाल, डॉ. शांतिप्रसादमैठानी, श्रीमती सीमा, श्री रामप्रसाद:, श्री अनूपरावत:, डॉ. हर्षानंद: उनियाल:, गोपी सिलस्वाल: च आदय: उपस्थिता: आसन्।