उत्तराखण्ड

उत्तराखण्डनाम्नि देवभूमौ संस्कृतभाषायाः पुनरभ्युदयाय सर्वकारेण आदर्शसंस्कृतग्रामयोजना घोषिता आसीत् । तस्या एव योजनायाः शुभारम्भः इदानीं भविष्यति

आगामिनि अगस्तमासस्य दशमे दिनाङ्के उत्तराखण्डराज्यस्य मुख्यमन्त्री माननीयो धामिपुष्करसिंहमहोदयो देहरादूनस्थभोगपुरग्रामाद् दूरदृश्यप्रणाल्या निखिलराज्ये घोषितमादर्शसंस्कृतग्रामपरियोजनायाः साक्षादुद्घाटनं विधास्यति । अस्मिन्नेव कार्यक्रमे उत्तरकाशीजनपदान्तर्गतः कोटग्रामोऽपि दूरदृश्यप्रणाल्या संयोजयिष्यते ॥

एतद्विषये सहायकसंस्कृतशिक्षानिदेशको विद्वान् भट्टपूर्णानन्दः सूचितवान् यद् उत्तरकाशीजनपदस्य मोरीखण्डे स्थितः सुरम्यः कोटग्रामः आदर्शसंस्कृतग्रामरूपेण चयनितोऽस्ति । देववाण्याः प्रचारप्रसारकार्याणि ग्रामस्तरे सुचारुरूपेण संचालयितुं तत्र एकस्य संयोजकमण्डलस्यापि गठनं विहितम् ॥

संस्कृतिः संस्कृताश्रिता इति हि मन्यन्ते विपश्चितः । अत एव ग्राममिमं पूर्णतया संस्कृतमयं कर्तुं नवनिर्वाचिता ग्रामप्रधाना श्रीमती रावतसङ्गीता संस्कृतग्रामसंयोजको महोदयः उनियालपिताम्बरः संस्कृतशिक्षक: आचार्यः पौडेलमाधवप्रसादश्च अविरतं प्रयतन्ते । ग्रामवासिनोऽपि महता उत्साहेन अस्मिन् वाग्यज्ञे स्वकीयं सहयोगं यच्छन्ति ॥

उद्घाटनदिने कोटग्रामेऽपि विशिष्टः समारोहः आयोजयिष्यते । यत्र च मुख्यातिथिरूपेण पुरौलाविधानसभाक्षेत्रस्य विधायकः माननीयो लालदुर्गेश्वरमहोदयः स्वयमुपस्थितो भूत्वा ग्रामवासिनामुत्साहं वर्धयिष्यति ॥

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button