गीतामयी सञ्जाता पञ्जाबस्य नाभानगरी (एकस्मिन् दिने ,एकस्मिन् नगरे च संस्कृतभारत्या: चत्वार: कार्यक्रमा: )
अजयकुमार-आर्य: ।दिसम्बरमासस्य एकादशदिनाङ्के संस्कृतभारती-पञ्जाब-द्वारा आयोजितेषु श्रीमद्भगवद्गीताजयन्त्याः उपलक्ष्ये पटियालाजनपदस्य नाभा-नगरे चतुर्षु स्थानेषु कार्यक्रमाः सञ्जाताः । प्रथमः कार्यक्रमः केन्द्रीय-विद्यालये नाभायां सञ्जातः यत्र मुख्यातिथिरूपेण आचार्यनिगमस्वरूपमहोदयः संस्कृतभारती पटियाला-जिलाध्यक्षः समागत:। महोदयेन ‘जीवने गीतायाः प्रयोगः कथं करणीयम् ‘ इत्यस्मिन् विषये स्ववक्तव्यम् अदीयत। कार्यक्रमेस्मिन् दशादिकशतोत्तर बाला: भागं गृहीतवन्त:। द्वितीयः कार्यक्रमः जिला-शिक्षा एवं प्रशिक्षण -संस्थाने (DIET) नाभायां सञ्जात: यत्र मुख्यातिथिरूपेण अजय-आर्यमहोदयः संस्कृतभारतीप्रान्तसहमन्त्री समागत: । महोदयेन ‘गीताज्ञाने संस्कृतस्य महत्त्वम् ‘ इति विषयमधिकृत्य जना: सम्बोधिता:। मुख्यवक्तारूपेण श्रीमान् ओमनदीपमहोदयः विभागसह-संयोजकः समागत:। महोदयेन गीतायाः महत्त्वस्य विषये निजवक्तव्यम् अदीयत। जिला -शिक्षा एवं प्रशिक्षण-संस्थान-( DIET ) पक्षतः तत्रत्य: प्राचार्यमहोदयः श्रीमत्-संदीपनागरमहोदयेन मुख्यातिथीनाम् अजयआर्यमहोदयस्य, मुख्यवक्ता ओमनदीपमहोदस्य च स्मृतिचिह्नेन सम्मानं कृतम् । कार्यक्रमेऽस्मिन् विस्तारकेन मनीषमहोदयेन विज्ञानप्रदर्शनी तथा साहित्यापण: संस्थापितौ। अस्मिन् कार्यक्रमे चत्वारिंशत्यधिकशतोतरप्रतिभागिन: भागम् अगृह्यन्त । तृतीयः कार्यक्रमः सर्वकारीय मॉडल हाईस्कूल-नाभायां सञ्जातः। कार्यक्रमेsस्मिन् मुख्यातिथिरूपेण श्रीमत्-राहुलमहोदयः समागत: । महोदयेन ‘छात्राणां कृते संस्कृतं किमर्थम् आवश्यकम् ‘ इति विषयमधिकृत्य निजोद्बोधम् अदीयत । अत्रैव मुख्यवक्तृरूपेण श्रीमदाचार्यनिगमस्वरूपमहोदयेन समागतेन’ जीवने गीतायाः प्रयोगः कथं करणीयम्’ विषये निजविचारा: प्रकटिता: । विद्यालयस्य प्रधानाचार्यः श्रीमज्जीवनमहोदयेन आगतानां अतिथिनां धन्यवाद: कृत:। कार्यक्रमेsस्मिन् सप्ततीछात्रा: समायुता: । चतुर्थः कार्यक्रमः अठारहभुजामन्दिरनाभायां सञ्जात:। यत्र मुख्यातिथिरूपेण श्रीमदाचार्यविनोदमहोदयः
नाभाप्रचारप्रमुखः संस्कृतभारती, समागत: । महोदय: ‘संस्कृतस्य महत्त्वम्’ इति विषयं स्वीकृत्य जनानां सम्बोधितवान। कार्यक्रमेऽस्मिन चतुर्दशजना: सम्प्राप्ता: ।
। एतेषां सर्वेषां कार्यक्रमाणां व्यवस्था श्रीमदनिलमहोदयेन
श्रीमन्मनीषमहोदयस्य सहाय्येन संस्कृतभारतीनगरव्यवस्थाप्रमुखेन कृतम् ।