उत्तराखण्डदेहरादून

उत्तराखण्डज्योतिषरत्नः डॉ. चण्डीप्रसादः घिल्डियालः “दैवज्ञः” राज्यपालमहाभागेन “श्रीचक्रसम्मानेन” सम्मानितः।

देहरादूनम्। राष्ट्रीयज्योतिषमहाकुम्भस्य समापनावसरे मुख्यातिथिरूपेण आगतेन महामहिम्ना राज्यपालेन लेफ्टिनेन्ट्जनरल्गुरमीत्सिंह्कौरमहाभागेन उत्तराखण्डज्योतिषरत्नः आचार्यः डॉ. चण्डीप्रसादः घिल्डियालः “दैवज्ञः” इति ख्यातः “श्रीचक्रसम्मानेन” सम्मानितः। अस्मिन् अवसरे अन्ताराष्ट्रियजगतः केवलं द्वादश ज्योतिषविदां मध्ये डॉ. घिल्डियालेन सह राज्यपालमञ्चे उपवेशनस्य सौभाग्यमपि प्राप्तम्।

स्वीयसम्बोधने राज्यपालमहाभागः अवदत्— “अन्ताराष्ट्रियस्तरे प्रतिष्ठिताः ये द्वादश ज्योतिषविदः मया सह मंचे विराजन्ति, ते वास्तविकरूपेण राष्ट्रस्य तथा च अन्ताराष्ट्रियजगतः ज्योतिषविद्यायाः संवाहकाः, ब्राण्ड्-अम्बेस्डर इत्यनेन रूपेण अपि कार्यं कुर्वन्ति। ज्योतिषविद्या क्वाण्टमितिसिद्धान्ताधिष्ठिता विद्या अस्ति, या समाजस्य सर्ववर्गाणां सम्यक् मार्गदर्शनं करोति।”
एतेषु एव आचार्येषु ए. दुबे पद्मेशः, अजयः भाम्बी, पण्डितः लेखराजः शर्मा, पण्डितः सतीशः शर्मा इत्यादयः “श्रीकीर्तिचक्रसम्मानेन” सम्मानिताः। राज्यपालमहाभागेन उक्तं यत्— राष्ट्रोन्नतौ एतेषां महती जिम्मेदारी अस्ति, यतः राजनेतारः, उच्चाधिकारिणः, न्यायाधीशाः, व्यापारीवर्गः, महिलावर्गः, युवावर्गश्च एतेषां प्रेरणया दिव्यानि कर्माणि कुर्वन्ति।

अस्मिन् समारोहसमये उत्तराखण्डज्योतिषपरिषदः अध्यक्षः आचार्यः रमेशः सेमवालः, संस्कृतशिक्षासचिवः दीपकः गैरोला, डॉ. पी.पी.एस्. राणा, पूजा अवस्थी, शुभी गुप्ता, पण्डितः रामलखनः गैरोला इत्यादयः संस्कृतजगतः प्रख्याताः अनेकाः विद्वांसः उपस्थिताः आसन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button