उत्तराखण्डनैनीताल

स्मृतयो भारतीय-ज्ञान-परम्परायाः आधारस्तम्भाः -: प्रोफेसर भगवत्शरणः शुक्लः

वार्ताप्रेषकः-डॉ.मूलचन्द्रशुक्लः*रामनगरम्। स्मृतियो भारतीय- ज्ञान-परम्परायाः आधारस्तम्भाः वर्तन्ते इति वार्ता मुख्यवक्त्रा प्रोफेसर भगवत्शरणः शुक्लः वर्येण गुरूदिवस-व्याख्यानमालायां निगदिता।पीएनजी राजकीय- स्नातकोत्तर-महाविद्यालय- रामनगरस्य कैरियर काउंसलिंग प्रकोष्ठ द्वारा सञ्चालितायाः चतुर्थ- शृंखलायाः नवमं व्याख्यानं संस्कृतविभाग द्वारा समायोजितम् । यस्य विषयः- “भारतीया संस्कृतज्ञानपरम्परा (स्मृतीनां विशेषपरिप्रेक्ष्ये )” आसीत्।मुख्यवक्तारूपेण काशी- हिन्दू -विश्वविद्यालयस्थस्य संस्कृतविद्याधर्मविज्ञानसङ्कायस्य व्याकरणविभागाध्यक्षचरः प्रोफेसर भगवत्शरणः शुक्लः आसीत्। अनेन स्वीये वक्तव्ये विश्वस्य सर्वासामपि भाषाणां जननी संस्कृतं विविध- ज्ञान-विज्ञानेन समन्वितं,भारतीयसंस्कार- संस्कृत-ज्ञान-परम्परा इत्यादिभिः सह नैतिकमूल्यानामपि शिक्षणस्य अमूल्यो निधिः वरीवर्ति।यस्यान्तःकरणे धारणेन समुज्ज्वलं भविष्यं भवितुमर्हति। स्वमहत्त्वपूर्णे वक्तव्ये अनेन स्मृतीनां वैज्ञानिकतथ्यैः रहस्यैश्च सह परिचयः कार्यता स्मृतिपरक- सामाजिकविज्ञानस्य “मनुष्येषु मनुष्यत्वमानयनम्” इत्यादिसम्बन्धि-विविध-क्षेत्रपरक- विषयाः अग्रेकार्यन्ते।

मुख्यवक्त्रा महोदयेन प्रश्नकाले विद्यार्थिद्वारा कृतजिज्ञासानामपि समाधानं पुरस्कृतम्। मनुस्मृति-आदीनां स्मृतीणामा विर्भावः समुचितसामाजिक-आचारः, आदर्शः, विचारः इत्यादिमुख्य- विषयाणां प्रतिपादनमाध्यमेन वैज्ञानिकसिद्धान्तानाम् उत्तम कर्मणां नामकरण-आदि-विहित- संस्काराणां परिपालनाय विहितः।विधिशास्त्रसम्मता याज्ञवल्क्यस्मृतिः इत्यत्र समाजगतसर्वविधन्याय-व्यवहार-परिज्ञानमुल्लिखितम्।केन्द्रीय- संस्कृत- विश्वविद्यालय-दिल्ली इत्यस्य परीक्षानियन्त्रकेन प्रोफेसर पवन कुमारः महोदयेन मुख्यातिथित्वं निर्व्यूढम्। अनेन स्वोद्बोधने प्रोक्तं यत् संस्कृतं न केवलं भाषा- साहित्यादिकं यावत् सीमान्तं याति अपितु अस्य वेदाः, स्मृतयः च इत्यादीनि शास्त्राणि जीवनदर्शनं चरितार्थीकुर्वन्ति।अग्रे तेन प्रोक्तं यत् भारतीय-ज्ञान- परम्परायाः वैविध्यपूर्णानि शास्त्राणि व्ववस्थितजीवनशैलीं सामाजिक-आदर्शान् इत्यादिकं स्थापयन्ति।

प्रारम्भे मुख्यातिथिः मुख्यवक्ता च इत्युभयोः स्वागतीकृत्य कार्यक्रमनिदेशकः प्राचार्यः प्रोफेसर एम. सी.पाण्डे वर्यः स्वसम्बोधने वदति यत् स्मृतयः न केवलं चातुर्वर्ण्यादिकान् विषयानेव प्रतिपादयन्ति अपितु लोकोपकारी वैज्ञानिकतथ्यान्नपि पुरस्कुर्वन्ति।आयोजकसचिवेन प्रभारी- संस्कृतविभागेन डॉ.मूलचन्द्र शुक्लः इत्यनेन समेषामभिनन्दनपूर्वकं प्रास्ताविकं विषयवस्तु प्रस्तुतम्। अनेनैव कार्यक्रमस्यान्ते अतिथिभिः सह सर्वेषामपि आगन्तुकानां कार्तज्ञ्यं विनिवेदितम्। व्याख्यानप्रबन्धने कैरियर काउंसलिंग प्रकोष्ठ इत्यस्य संयोजकः डॉ.अनुराग श्रीवास्तवः, सहसंयोजिका डॉ. लोतिका अमितः, डॉ. रागिनी गुप्ता, प्रकाश सिंह बिष्टश्च इत्येषां विशेषावदानमासीत्।

अस्मिन् कार्यक्रमे महाविद्यालयेन सह नैकविधस्थानैः सस्थाभिश्च गणमान्यजनाः संस्कृतानुरागिणश्च संयुता आसन्। तत्र प्रोफे. गिरीशपन्तः,चीफ प्रॉक्टर प्रो.एस.एस.मौर्यः,प्रो. पुनीता कुशवाहा,प्रो. कमला पन्तः,डॉ.अशोक मिश्रः,डा.सुधा,डॉ. गणेश्वरनाथ- झाः,डॉ.डी.एन.जोशी,डॉ. दीपक खाती, डॉ. नीलेश उपाध्यायः, डॉ. वेदव्रतः,डॉ. नीरज जोशी, डॉ. राजकुमारः,डॉ. शारदा पाठक,डॉ. सुमन कुमारः,डॉ.मुरलीधर पालीवालः, डॉ. विपिन झाः,डॉ. विष्णुकान्तः त्रिपाठी,डॉ. मुरलीधर कापडी,अशोक तिवारी,डॉ. बलवीरचन्द्रः,डॉ. ललितमोहनः, डॉ. कृष्णा भारती, डॉ. अलका, डॉ. दीप्तिः, राधेकृष्ण शुक्लः,सोनू कुमारः इत्यादयः प्रतिभागमकुर्वन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button