बसन्तपञ्चमीमहोत्सवस्य पुण्यपर्वणि परमार्थवैदिकाश्रमगुरुकुले भव्यं योगप्रदर्शनम्। विधायकखण्डूरी महोदया अवदत् यत् सर्वकार: सुदृढपदं ग्रहीष्यति

वसन्तपञ्चम्याः पुण्यसंदर्भे ई-टेक्नोमाइण्ड-सार्थक- योगशालाद्वारा वैदिकाश्रमगुरुकुले विद्यार्थिनां कृते कलाकौशल-योगासनस्य उत्कृष्टं प्रदर्शनं कृतम्। अस्मिन् विशेषे योगकार्यक्रमे छात्राः स्वीयं लाघवं, समत्वं, शारीरिकं कौशलं च अद्भुतरूपेण प्रदर्शितवन्तः, येन उपस्थिताः दर्शकाः विस्मिताः अभवन्।
कार्यक्रमे सार्थकः कण्डवालः, ईशानवी कण्डवाल:, अञ्जलि: नेगी, संस्कृति: गुंसै, अवनिनेगी, अग्रिमा नेगी, द्विवेदी च स्वीयं योगप्रत्यासां प्रदर्शितवन्तः। छात्रैः सूर्यनमस्कारः, वृश्चिकासनम्, शीर्षासनम्, धनुरासनम्, चक्रासनम्, तितिभासनम्, मयूरासनं च अस्यां योगशालायां दर्शितम्, येन सर्वेऽपि योगस्य सौन्दर्यं शक्तिं च अनुभूतवन्तः।
गुरुकुलस्य आचार्याः मनमोहननौटियालः, संजयरावतः योगप्रशिक्षक:, आचार्यः किशोरबिडालियः तथा आचार्यः कुलदीप मैन्दोला इत्येते च महन्तयोगिराजवर्य: छात्राणां योगकौशलस्य प्रशंसां कृतवन्तः। तेषामभिप्रायः यत् योगः केवलं व्यायामः नास्ति, अपितु सः शारीरिकं मानसिकं आध्यात्मिकं च विकासमार्गः अस्ति।
अस्मिन अवसरे उपस्थिता कोटद्वार-विधायिका माननीया ऋतुभूषणखण्डूरी महोदया विद्यार्थिनां प्रशंसां कृत्वा अवदत् यत् गुरुकुलं भारतस्य संस्कृतेः धरोहरं धारयति। गुरुकुलस्य संस्कृति: संस्कृतं च अद्यापि जनमानसस्य मार्गदर्शनं करोति। तेन गुरुकुलस्य छात्राणां च साहाय्यार्थं सर्वकारं समुपस्थितुं संकल्पितं कथितं यत् सर्वकार: तत्कारणे सुदृढपदं ग्रहीष्यति।







