संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देशपंजाबराजस्थान

षट्षष्टितमे द्वंद्वे पंजाबकिंग्स, राजस्थानरॉयल्स इत्यनयो: दलयो: मध्ये प्रतिस्पर्धा

राजस्थानरॉयल्सदलेन पंजाबकिंग्सदलं 04 विकेटत: पराजितम्।

• देवदत्तपड्डिकल:प्रतिस्पर्धाया: सर्वश्रेष्ठ: क्रीडक:चयनित:।

संस्कृतसमाचार:-डॉ.अमितशर्मा। भारतीय-प्रीमियर-लीग इत्यस्य षट्षष्टितमे द्वंद्वे पंजाबकिंग्स, राजस्थानरॉयल्स इत्यनयो: दलयो: मध्ये प्रतिस्पर्धा जाता। इयं प्रतिस्पर्धा राजस्थानरॉयल्सदलेन पंजाबकिंग्सदलं 04 विकेटत: पराजित्य विजिता। टॉसं विजित्य राजस्थानरॉयल्सदलेन प्रथमं कन्दुकक्षेपणं चयनितम्। पंजाबकिंग्सदलस्य प्रारम्भ: उत्तम: नासीत्। प्रभसिमरन सिंह: 02 (02), शिखरधवन: 17 (12) अथर्वतायड़े 19 (12), लियामलिविंगस्टन: च 09 (13) धावनांकान् योजितवन्तः। 6.3 कन्दुकचक्रेषु पंजाबकिंग्सदलस्य 04 क्रीडका: 50 धावनांकेषु बाधिता: आसन्। जितेशशर्मा 28 कन्दुकेषु 44, शाहरुखखान: च 23 कन्दुकेषु 42 धावनांकानां पाली क्रीडितवन्तौ। निर्धारितेषु 20 कन्दुकचक्रेषु पंजाबदलेन 05 क्रीडकहानौ 187 धावनांकानाम् अर्जनं कृत्वा राजस्थानरॉयल्सदलाय च विजेतुं 188 धावनांकानां लक्ष्यं प्रदत्तम्। राजस्थानदलस्य कन्दुकक्षेपकेषु नवदीपसैनी 03, एडमजम्पा, ट्रेंट बोल्टश्च 1-1 विकेट स्वीकृतवन्तः।

188 धावनांकानां लक्ष्यप्राप्तिक्रमे राजस्थानरॉयल्सदलस्य यशस्वीजायसवाल: 50 (36) देवदत्तपड्डिकल: च 51 (30) धावनांकै: दलस्य प्रारम्भं सुदृढम् अकुरुताम्। यद्यपि जॉसबटलर: शून्ये एव बाधितः आसीत्। तदनु शिमरॉनहिट्मायर: 46 (28), रियानपराग: 20 (12), ध्रुवजुरैलश्च 10 (04) धावनांकान् योजितवन्तः। 19.4 कन्दुकचक्रेषु राजस्थानदलेन 06 क्रीडकहानौ 189 धावनांकान् कृत्वा लक्ष्यं प्राप्य 04 विकेटत: इयं प्रतिस्पर्धा विजिता। पंजाबकिंग्सदलस्य कन्दुकक्षेपकेषु कगिसो रबाडा 2, सैमकरन:, अर्शदीपसिंह:, नाथनएलिस:, राहुलचाहरश्च 1-1 विकेट गृहीतवन्त:।
स्वकीयोत्कृष्टप्रदर्शनाय देवदत्तपड्डिकल: स्पर्धाया: सर्वोत्कृष्ट: क्रीडक: चयनितः।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button