देश

सर्वेषु मण्डलेषु स्त्रियः शक्तिं समार्जितवत्यः – मन की बात कार्यक्रमे प्रधानमन्त्रिणा उक्तम्।

प्रधानमन्त्रिणः नरेन्द्रमोदिनः ‘मन की बात’ नाम मासिकीय आकाशवाणी कार्यक्रमे तेन उक्तं यत् सर्वेषु मण्डलेषु स्त्रियः शक्तिं समार्जितवत्यः इति। कार्यक्रमस्य एकोन शततमं प्रसारणम् आसीत् इदम्।

भारतस्य संवर्धने महिलानां महती भूमिका वर्तते। ते प्रत्येकस्मिन् क्षेत्रे स्वकौशलं सिद्धयन्ति। नागालैण्ड्देशे ७५ वर्षेभ्यः परं प्रथमवारं विधानसभायां द्वे महिले आगतवत्यौ इति प्रधानमन्त्री अवदत्।

अस्माभिः संयुक्तराष्ट्रसङ्घस्य नियोगे अन्तर्गतायां शान्तिसेनायां महिलानां मण्डलम् एकं प्रेषितम् आसीत्। भारतस्य क्षमतां नूतनस्तरं प्रति नेतुम् महिलानाम् उपलब्धयः महत्त्वपूर्णाः सन्ति इत्यपि नरेन्द्रमोदिना स्मृतम्।

२०१४ तमस्य वर्षस्य विजयदशमी-दिने (अक्टोबर्-मासस्य ३ दिनाङ्के) आरब्धस्य ‘मन की बात’-कार्यक्रमस्य ९९ तमे प्रकरणे आसीत् प्रधानमन्त्रिणः महिलां प्रति ईदृशी सहयोग प्राप्तिः तदीयं वचश्च।

~ सम्प्रतिवार्ताः

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button