संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

संस्कृतभारती-उत्तराञ्चलद्वारा हरिद्वारे समायोजितः पञ्चदिवसात्मको कार्यकतृनैपुण्यवर्गः

आचार्यःविशालप्रसादभट्टः।संस्कृतभारती-उत्तराञ्चलम्,हरिद्वारम्,अद्योत्तराखण्डराज्यस्य गङ्गाद्वारहरिद्वारस्य कलिकल्मषहारिण्याः भगवत्याःभागीरथ्याःपरमपवित्रपावने दक्षिणभागे स्थितस्य संस्कृतभारती-उत्तराञ्चलन्यासस्य प्रान्तीयकार्यालये श्रीनारायणसेवाश्रमे दयानन्दनगर्यां ज्वालापुरे हरिद्वारे संस्कृतभारत्याः पश्चिमोत्तरप्रदेशक्षेत्र-ब्रजमयराष्ट्रोत्तराखण्डेत्येतेषां त्रयाणां प्रान्तानां संस्कृतायसमर्पितजीवनानां पूर्णकालिकानां कार्यकतृ‌णां भाषानैपुण्यसंवर्धनार्थं पञ्चदिवसात्मकोऽयं भाषानैपुण्यवर्गः समायोजितः। यस्योद्घाटनमद्य फाल्गुनमासस्य शुक्लपक्षस्य षठ्यां तिथौ चन्द्रवासरे मार्चमासस्य प्रथमे दिनाङ्के प्रातःकालीनायां वेलायां शारदार्चनपुरस्सरं वैदिकमङ्गलाचरणेन सरस्वतिवन्दनया चास्माकं सुमार्गदर्शकैः संस्कृतभारत्याः समर्चनायै समर्पितजीवनोत्तमसङ्घटनकर्त्रिभिः ज्येष्ठपूर्णकालिप्रचारकैः पश्चिमोत्तरक्षेत्रसङ्घटनमन्त्रिचरैः श्रीमद्भिः प्रतापसिंहमहाशयानां सानिध्ये ब्रजप्रान्तसङ्घटनमन्त्रिणा श्रीमता श्रवणानन्दमहाराजेन अपि च उत्तराखण्डप्रान्तसङ्घटनमन्त्रिणा श्रीमता योगेशविद्यार्थिमहोदयेन विहितः। तदनन्तरं वर्गस्यास्य प्रास्ताविकोद्बोधनं प्रस्तुवन् श्रीमद्भिः प्रतापमहोदयेनोदीरितं यदस्माकं पूर्णकालिकानामुत्तरोत्तरं भाषास्तरवर्धनार्थं भाषासौष्ठवसम्पादनार्थञ्च वर्षेकवारं नैपुण्यवर्गः समायोज्यते। एतदर्थमस्मिन्वर्षे अपिवर्ग: अयमत्रसमायोज्यत।वर्गेऽस्मिन् प्रातःकालादारभ्य रात्रिकालपर्यन्तं विविधसत्रेषु नैकानां वैयाकरणादि गभीरशास्त्रीयविषयाणामुपरि सविस्तरं शिक्षणाभ्यासादिक्रमेण विचारविमर्शःविधीयते।ततःपरं सायंकालीने सत्रेऽस्माकं सर्वेषां सौभाग्यवशात् नागपुरमहाराष्ट्रस्थश्रीकविकुलगुरुकालिदासविश्वविद्यालयस्य मान्याः कुलपतयः संस्कृतभारतीसङ्घटनस्याखिलभारतीयोपध्यक्षाश्च श्रीमन्तश्श्रीनिवासवरखेडीमहाभागाः समायाताः। अस्माकं मार्गदर्शनं कुर्वाणाःतैः प्रोक्तं यत् साम्प्रतिके काले समाजे सर्वत्र जनानां मनस्सु संस्कृतम्प्रति महानादरभावःतथैव संस्कृतभारत्याः कार्यकर्तारम्प्रत्यपि महत्याःश्रद्धायाश्च भावःदरीदृश्यते।अतोऽस्माकं परमं कर्तव्यं वरीवर्ति यत् वयं संस्कृतमित्यनेन साधनेन समाजस्य पुनरुज्जीवनाय राष्ट्रजागरणाय पुनश्च भारतमातरं विश्वगुरुपदेप्रतिष्ठापयितुमहर्निशं कर्मयोगं कुर्वन्तः स्वात्मानं समर्प्य सदा सर्वदा पूर्णमनोयोगेन निष्ठया कार्यं विधेयम्।तदनन्तरमुत्तराखण्डसंस्कृताकादम्याःमान्योपाध्यक्षाःउत्तराखण्डायुर्वेदविश्वविद्यालस्य गुरुकुलपरिसरस्य मौलिकसंहितासिद्धान्तविभागाध्यक्षाश्च प्रो0प्रेमचन्द्रशास्त्रिमहाभागाः सर्वैपि कार्यकर्तृभिस्समं मेलनार्थं वर्गस्यास्यावलोकनार्थं समागताः। वर्गेऽस्मिनाहत्य एकविंशतिः कार्यकर्तारः भागं गृह्णन्तस्सन्ति। तदनन्तरमस्माकं परमपूज्यानां स्मरणीयानां पूज्यानां गोलोकवासिनां ब्रह्मलीनानां संस्कतभारती-उत्तराञ्चलस्य पूर्वप्रान्ताध्याक्षाणां श्रद्धेयानां डा0बुद्धदेवशर्मवर्याणां पुण्यस्मरणे सामूहिकरूपेण तेभ्यो श्रद्धाञ्जलयः समर्पिताः। यथा तेषां सहृदयानां संस्कृतपुरुषाणां समेषां कार्यकतृणाम्प्रति सरलमधुरस्वभावः,संस्कृतकार्यार्थं सर्वदा मनसि समुत्साहः,संस्कृतम्प्रति समर्पणभावना,ध्येयनिष्ठा,कार्यशैली,जीवनशैली चासीत् सास्माभिः नितरामनुकरणीयाः स्मरणीयाश्च वर्तते। समेभ्यो प्रणतिनतिपुरस्सरं हार्दान् धन्यवादानभिनन्दनानि च व्याहरन् वन्दे भारतभारतीम्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"
Back to top button