संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देहरादून

द्वादशकक्षाया:भौतिक-शास्त्रे व्यावहारिकपरीक्षा सम्पन्ना

श्रीमती-अनुराधा-पन्तद्वारा परीक्षार्थिनां व्यावहारिकपरीक्षा सम्पादिता।

गुरुवासरे श्रीगोवर्धनसरस्वतीविद्यामन्दिरधर्मपुरे देहरादूने भौतिकशास्त्रे द्वादशव्यावहारिकपरीक्षा सम्पन्ना अभवत्। परीक्षार्थं सुनिश्चिता व्याख्याता भौतिकीत: खालसा-इण्टर -कॉलेज-हल्द्वानीत: श्रीमती-अनुराधा-पन्तद्वारा परीक्षार्थिनां व्यावहारिकपरीक्षा सम्पादिता । एनसीसी कैडेट् इत्यनेन वन्दनास्थले अतिथिभ्यः अभिवादनं कृत्वा स्वागतं कृतम्। राष्ट्रीयस्तरस्य भालाप्रक्षेपणप्रतियोगितायां भागं गृहीतवन्तः । श्रीमती अनुराधा पन्त:, तस्याः पतिः डॉ. संजीवपन्त:, विद्यालयस्य अजीतस्य भ्रातुः पिता श्री रमेशयादवः च दीपं प्रज्ज्वाल्य वंदनासत्रस्य आरम्भं कृत्वा सकारात्मकं मार्गदर्शनं दत्तवन्तः । कालेस्मिन् विद्यालयस्य प्राचार्य: डॉ. अखिलेशकुमारशर्मा विद्यालयस्मृतिचिह्नं प्रदाय स्वागतं एवं अभिनन्दनं कृतवान् । विद्यालयपरिवारः तान् धन्यवादं ददाति, तेषां उज्ज्वलभविष्यस्य कामनां च करोति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button