संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

अयोध्यायां न्यासाय समर्पिताः शलिग्रामशिलाः

• एकपञ्चाशतभिः वैदिकाचार्याभिः विधिविधानेन कृतं पूजनम् अर्चनं च

• नेपालदेशात् गोरखपुरमार्गेण बुधवासरे रात्रौ विलम्बेन अयोध्यानगरं प्राप्ताः शिलाः”

अयोध्या । अयोध्यायां मर्यादापुरुषोत्तमस्य भगवतः श्रीरामस्य भव्यमन्दिरस्य निर्माणकार्यं तीव्रतया प्रचलति । केन्द्रस्य मोदीसर्वकारस्य प्रदेशस्य योगिसर्वकारस्य च नेतृत्वे अयोध्यायाः सम्पूर्णः विकासः अपि भवति । नेपालदेशात् अयोध्या प्राप्ताः शालिग्रामशिलाः गुरुवासरे श्रीरामजन्मभूमितीर्थक्षेत्रन्यासाय समर्पिताः । उभेऽपि शिले बुधवासरे रात्रौ विलम्बेन अयोध्या प्राप्ते । अत्र साधुभिः सद्भिः जनप्रतिनिधिभिश्च उद्घोषः अग्निक्रीडा चेत्यनयोः मध्ये स्वागतं कृतम् ।

“एकपञ्चाशतभिः वैदिकाचार्याभिः विधिविधानेन कृतं पूजनम् अर्चनं च”

गुरुवासरे प्रातः दशवादने एकपञ्चाशतभिः आचार्याभिः विधिविधानेन द्वयोः शिलायोः पूजनम् अर्चनं च कृतम् । अस्मिन् काले वर–वधूसर्वकारः, जयश्रीरामः इत्यादयः उद्घोषाः गुञ्जिताः । अयोध्यायाः नेपालदेशस्य च त्रेतायुगीनसम्बन्धानां स्मरणं कृतम् । शिलानां स्वागतार्थं वृहद् सङ्ख्यासु साधवः सन्तः अयोध्यावासिनः च एकत्रिताः अभवन् । नेपालदेशात् प्रभुरामचन्द्रस्य प्रतिमायै आगता शिला शिरोधार्यं कर्तुं सम्मर्धः अभवत् । कश्चिद् तस्य अग्रे नतमस्तकं भवति, कश्चिद् तस्यां टीकाकरणं करोति स्म तु कश्चिद् शिलाभ्यां सह चित्राकर्षणं करोति स्म।

“नेपालदेशस्य गण्डकीनदीतः आगताः पवित्राः शिलाः”

नेपालदेशस्य पूर्व–उपप्रधानमन्त्रिणा विमलेन्द्रनिधिना उक्तं यत् पूर्वं सः जनकपुरात् सम्बद्धः श्रीरामस्य परम्परानुरूपं प्रभोः रामचन्द्राय धनुः उपहाररूपेण दातुम् इच्छति स्म, किन्तु रामजन्मभूमितीर्थक्षेत्रन्यासेन सह द्विवर्षं यावत् सञ्चलितायाः वार्तायाः अनन्तरं निश्चितम् अभवत् यत् नेपालदेशस्य गण्डकीनदीतः प्रभोः रामचन्द्राय प्रतिमायै पवित्रशिलाः समर्पणीयाः । एवं कृत्वा वयं बहु हर्षम् अनुभवामः । द्वे अपि शिले अयोध्यायां समर्पिते । एतौ द्वौ विशालशिलाखण्डौ बुधवासरे नेपालदेशात् गोरखपुरमार्गेण रामसेवकपुरम् प्रापितौ । गुरुवासरे एताः विधिविधानपूर्वकं नेपालस्थितं प्राचीना मिथिलायाः राजधान्याः जनपुरस्य जानकीमन्दिरस्य महन्तरामतपेश्वरदासेन नेपालदेशस्य पूर्व–उपप्रधानमन्त्रिणा विमलेन्द्रनिधिना च रामजन्मभूमितीर्थक्षेत्रन्यासस्य महासचिवाय चम्पतरायमहोदयाय समर्पणपत्रमाध्यमेन उपहाररूपेण प्रदत्तः । चम्पतरायद्वारा शिलासमर्पणाय जनकपुरमन्दिरं, नेपालसर्वकारं, तत्रत्यः जनान् प्रति आभारः ज्ञापितः ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button