उत्तराखण्ड

कोटग्रामः जातः आदर्श-संस्कृत-ग्रामः

संस्कृत्या च परम्परया च समृद्धस्य ग्रामस्य भव्यः शुभारम्भः सम्पन्नः

कोटग्रामः (उत्तरकाशी)। उत्तराखण्ड-संस्कृत-अकादम्याः आयोजनं कृत्वा राज्यस्य त्रयोदश-जनपदेषु चयनितेषु आदर्श-संस्कृत-ग्रामेषु वर्चुअल-रूपेण उद्घाटनकार्यक्रमः माननीय-मुख्यमंत्री-पुष्करसिंह-धामी-महोदयस्य करकमलात् सम्पन्नः। अस्मिन क्रमणि उत्तरकाशी-जनपदस्य कोटग्रामे अपि साङ्गोपाङ्गं विधिपूर्वकं भव्यं शुभारम्भः कृतः।

कोटग्रामः, यः स्व-संस्कृत-विरासतायाः, प्राचीनपरम्परायाः, सांस्कृतिक-मूल्यानां च रक्षणे प्रसिद्धः अस्ति, अधुना ‘आदर्श-संस्कृत-ग्रामः’ इति नवीनं स्वरूपं प्राप्य गौरवेण अग्रे गच्छति।

मुख्य-अतिथिरूपेण उपस्थितः क्षेत्रीय-विधायकस्य प्रतिनिधिः, सामाजिक-अभियन्ता, पूर्व-प्रधानश्च श्री-लायवरसिंह-रावत-महोदयः अवदत्—
“एषः अत्युत्तमः कार्यः माननीय-मुख्यमंत्रिणा च विधायक-महोदयेन च कृतः। वयं विश्वासं कुर्मः यत् निकटभविष्ये कोटग्रामः एकः पूर्ण-विकसितः आदर्श-संस्कृत-ग्रामः भविष्यति।”

विशिष्ट-अतिथिरूपेण शौर्यचक्र-विभूषितः भारतीय-सेनायाः वीरः च समाजसेवकः श्री-किताबसिंह-महोदयः उक्तवान्—
“संस्कृतभाषा अस्माकं आत्मा अस्ति। अस्यां एव अस्माकं वास्तविक-चिन्हं निहितम् अस्ति, तस्य रक्षणं अस्मिन गामे वयं निश्चिततया करिष्यामः।”

ग्राम-प्रधान-पदेन नवनिर्वाचिता श्रीमती-संगीता-रावत-वर्या उद्घोषयत्—
“कोटग्रामवासिनः सौभाग्यवन्तः यतः अस्मिन परियोजनायाम् अस्माकं चयनं जातम्। संस्कृतं दैनिकीं भाषां कर्तुं यः कश्चन प्रयासः आवश्यकः सः वयं कर्तुं प्रतिबद्धाः स्मः।”

कार्यक्रमस्य शुभारम्भः वैदिक-मन्त्रोच्चारणेन दीप-प्रज्वलनं च कृत्वा आध्यात्मिक-भावनया पूर्णः जातः। समारम्भस्य संचालनं ग्रामस्य आदर्श-शिक्षकः आचार्यः श्री-माधवप्रसाद-पौडेल-महोदयः सम्यक् प्रकारेण कृतवान्। सः अवदत्—
“एषा योजना केवलं शासनस्य नीतिः न, अपितु अस्माकं परम्परा, संस्कारः, आत्मीयता च पुनरावर्त्यते। अतः प्रत्येकस्य ग्रामवसिनः कर्तव्यं भवति यत् सः संस्कृतं पठेत्, अन्यान् च प्रेरयेत्।”

कोटग्रामं संस्कृतग्रामरूपेण स्थापितुं स्वर्गीयः श्री-भगवतीप्रसाद-उनियाल-महोदयः महान् प्रेरकः आसीत्। तेन ग्रामे संस्कृतभाषायाः पुनर्जागरणं, पाठशालायाम्, मन्दिरेषु, सार्वजनिक-स्थलेषु च तस्य प्रचारः साधितः। तस्य योगदानं ग्रामवासीः चिरकालपर्यन्तं स्मरिष्यन्ति।

कार्यक्रमे बालक-बालिकाभिः संस्कृत-नृत्य-गीत-रूपेण सांस्कृतिक-प्रस्तुतयः प्रदत्ताः। चटका-चटका, ग्रामे नगरे, कालिदासो जने जने इत्यादीनां प्रस्तुती कार्यक्रमस्य गरिमां वर्धयति स्म। स्वागत-नृत्ये आंचल, राखी, गुंजन, प्राची, अंजलि इत्यादिभिः बालिकाभिः अत्युत्तमा प्रस्तुति दत्ता।

उल्लेखनीयं यत् कार्यक्रमे प्रायः २५० ग्रामवासिनः अत्युत्साहेन सहभागितां कृतवन्तः। एषः ग्रामे संस्कृतभाषायाः विषये स्नेहस्य प्रमाणम्।

एषः आयोजनः केवलं भाषायाः संवर्धनं न, अपि तु ग्रामस्य योग-आयुर्वेद-वेदविद्या-केन्द्ररूपेण विकासस्य एकः महत्वपूर्णः चरणः। अस्य प्रयासस्य फलरूपेण कोटग्रामः निकटभविष्ये आदर्श-संस्कृत-ग्रामरूपेण संपूर्ण-भारतस्य पुरतः दृष्टांतस्वरूपः भविष्यति।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button