भारतस्य गौरवं संस्कृते संस्कृतौ च निहितं – ” प्राचार्य प्रो. डी.एस.नेगी”
🔵 राजकीयस्नातकोत्तरमहाविद्यालये कोटद्वारे भारतीयसंस्कृतिज्ञानपरीक्षायाः पुरस्कारवितरणसमारोहः सम्पन्नः🔵 🔵जनपदस्तरे शिक्षाशास्त्रविभागस्य छात्रा रितिका प्रथमस्थानं द्वितीयस्थानं अनुरागबडोनी च प्राप्तवन्तौ 🔵

।कोटद्वारम्। शान्तिकुञ्जहरिद्वारस्य तत्त्वावधाने भारतीयसंस्कृतिज्ञानपरीक्षा डा. पीताम्बरदत्तबडथ्वालहिमालयनराजकीयस्नातकोत्तर- महाविद्यालये कोटद्वारे सफलतया सम्पादिता आसीत्। अस्याः परीक्षायाः आयोजनं महाविद्यालयस्य यशस्विना प्राचार्येण प्रो. डी. एस. नेगीमहोदयेन कुशलपूर्वकं कृतम्। अस्यां परीक्षायां ८३ छात्राः छात्राश्च पञ्जीकृत्य भागं गृहीतवन्तः।
परीक्षायाः संयोजनं संस्कृतविभागाध्यक्षया डा. अरुणिमामहाभागया विभागीयप्राध्यापकैः सह मिलित्वा सम्यग् आयोज्य सम्पादितम्। परीक्षायाः संचालनं परीक्षाप्रभारिणा डा. अभिषेकगोयलमहोदयेन तथा अन्यैः परीक्षा-सदस्यैः च सम्यक् प्रकारेण कृतम्। सर्वे विभागेषु पठन्तः छात्राः छात्राश्च अस्यां परीक्षायाम् उत्साहेन भागं गृह्णन्तः स्वस्य ज्ञानम् कौशलञ्च प्रदर्शितवन्तः।
परीक्षाफलप्रकाशनानन्तरं मंगलवासरे पुरस्कारवितरणसमारोहः आयोजित:। अस्मिन् अवसरे शान्तिकुञ्जहरिद्वारसंस्थया प्रदत्तं प्रमाणपत्रं, धनराशिः, स्मृतिचिह्नं च विजयीछात्रेभ्यः छात्राभ्यश्च प्रदत्तम्। जनपदस्तरे प्रथमस्थानं शिक्षाविभागस्य छात्रया रितिकाद्वारा प्राप्तम्। द्वितीयस्थानं च तस्यैव विभागस्य छात्रेण अनुरागबडोनी इत्यनेन प्राप्तम्।
प्रथमस्थानं प्राप्तायै रितिकायै प्रमाणपत्रं, स्मृतिचिह्नं च सहैव धनराशिः १००० रूप्यकाणि समर्पितानि। द्वितीयस्थानं प्राप्ताय अनुरागबडोनी इत्यस्मै प्रमाणपत्रं, स्मृतिचिह्नं च सह धनराशिः ७०० रूप्यकाणि समर्पितानि।
प्राचार्यः प्रो. डी. एस. नेगीमहोदयः छात्रेभ्यः छात्राभ्यश्च सम्बोधितवान् यत्— “भारतीयसंस्कृतेः महिमा अनन्ता अस्ति। भारतस्य गौरवम् संस्कृते संस्कृतौ च निहितम् अस्ति। एषः अत्यन्तं गर्वकारकः क्षणः यः अस्माकं छात्राः छात्राश्च जनपदस्तरे प्रथमद्वितीयस्थानं प्राप्तवन्तः। भविष्यात् राज्यस्तरे अपि उत्तमे फलं प्राप्तुं छात्राणां प्रोत्साहनं करणीयमिति।”
अस्मिन् शुभावसरे महाविद्यालयस्य वरिष्ठप्राध्यापकाः — डा. रमेशचौहान:, डा. नन्दी गढिया, डा. सुषमा थलेडी, डा. मीरा, डा. सुनीता नौटियाल:, डा. रञ्जना सिंह:, डा. सुरेखा घिल्डियाल:, डा. मीनाक्षी वर्मा, डा. अजयरावत:, डा. विजयलक्ष्मी, तथा विभागीयप्राध्यापकाः — डा. अरुणिमा, डा. रोशनी असवाल:, डा. मनोरथप्रसादनौगांई, डा. प्रियम: अग्रवाल: च अपि उपस्थिताः अभवन् सहैव कोटद्वारस्य उपजनपदसंयोजकः श्रीकुलदीपमैन्दोला सर्वेषां कृते शुभकामनां दत्तवान्।







