उत्तराखण्ड

मुख्यसेवक-आपके-द्वार इत्यस्मिन्विषये मुख्यमन्त्रिणा सह जनसंवाद: संजात:।

अस्य दशकस्य उत्तराखण्डस्य दशकं कर्तुं सर्वेषां स्वस्वक्षेत्रेषु योगदानं कर्तव्यं---- "मुख्यमंत्री"

मुख्यमंत्री श्री पुष्करसिंहधामी त्रिहरीबौराडीक्षेत्रे “मुख्यसेवक-आपके-द्वार” इत्यस्मिन् जनसंवादकार्यक्रमे विभिन्नयोजनानां लाभार्थिभिस्सह संवादं कृतवान् । पंचायतीराजत:, सैनिककल्याणत:, पर्यटनत:, प्रौद्यानिकीत: आदिभ्य: विभागेभ्य: विविधयोजनासम्बन्धेभ्य: जना: मुख्यमन्त्रिभिस्सह स्वविचारं प्रस्तुतवन्त: ।

मुख्यमन्त्री श्री धामी इत्यनेन उक्तं यत् समाजस्य विभिन्नवर्गाणां कृते केन्द्रराज्यसर्वकारेण अनेकानि जनकल्याणकारीयोजनानि चाल्यन्ते। ये केन्द्रराज्यसर्वकारेण चालितानां योजनानां लाभं गृह्णन्ति, तेषां परितः जनान् अवश्यमेव तस्मिन् विषये अवगतं करणीयम्। त्रिहरीजिलाधिकारिणं निर्देशं दत्त्वा मुख्यमन्त्री उक्तवान् यत् यदि बलिदानिनां नामानां पश्चात् मण्डले विद्यालये, उद्याने, मार्गादीनां नामकरणे आपत्तिः नास्ति तर्हि एतादृशाः प्रस्तावाः सर्वकाराय प्रेषिताः भवेयुः।

मुख्यमन्त्री जिलादण्डाधिकारिणं निर्देशं दत्तवान् यत् कृषकान् सेलाकुई-नगरे स्थितं संगन्द-संयंत्र-केन्द्रं प्रति अपि भ्रमणार्थं नेतव्यम्, येन ते तत्रत्याः विविधाः क्रियाकलापाः द्रष्टुं शक्नुवन्ति | अस्य दशकस्य उत्तराखण्डस्य दशकं कर्तुं सर्वेषां स्वस्वक्षेत्रेषु योगदानं कर्तव्यं भविष्यति।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button