जावरापुरे संस्कृतोत्सवस्य भव्यः समापनसमारोहः

मध्यप्रदेशस्य जावरापुरे स्थितस्य कमलानेहरूनामकस्य शासकीयकन्याविद्यालयस्य प्राङ्गणे संस्कृतसप्ताहसमारोहः महता उत्साहेन सम्पन्नोऽभवत् । अस्मिन् सप्ताहे प्रत्यहं प्रार्थनासभायां देववाणीमयानि गीतानि सुललितश्लोकाश्च विद्यार्थिनीभिः प्रस्तुताः येन वातावरणं संस्कृतमयं सञ्जातम् ॥
अतीव मनोहरा मदर्यन्तिकास्पर्धापि समायोजिता यस्यां विद्यार्थिन्यः स्वकरकमलेषु धर्मार्थकाममोक्षप्रदायिनीः संस्कृतसूक्तीः कलात्मकरूपेण अलिखन् । अपरञ्च ताभिः व्याकरणस्य साहित्यस्य च गहनतत्त्वानि प्रदर्शयन्ति ज्ञानवर्धकानि चित्राधारपत्राण्यपि विरचितानि । न केवलं छात्राः अपितु संस्कृतशिक्षकाः अन्येऽपि अध्यापकाः स्वमधुरकण्ठैः संस्कृतगीतानि अगायन् तथा च कालिदासभासप्रभृतीनां कविकुलगुरूणां कृतीनां विषये सारगर्भितां सूचनां प्राददुः ॥
समारोहस्य चरमे दिवसे विजेत्रीभ्यः विद्यार्थिनीभ्यः पुरस्काराः वितरिताः येन तासां मुखकमलानि प्रफुल्लितान्यभवन् । संस्कृतसप्ताहप्रभारिण्या श्रीमत्या गुप्ताटीनया सप्ताहस्य सर्वासां गतिविधीनां वृत्तं श्रावितम् । विभागाध्यक्षा श्रीमती यादवचन्द्रकला च कर्णप्रियं गीतमेकं प्रस्तुतवती ॥
अवसरेऽस्मिन् विद्यालयस्य प्राचार्या श्रीमती बामनीयासुमित्रा तथा च श्रीमती अल्फ्रेडपुष्पा श्रीठाकुरानिलः श्रीत्रिवेदीरितेशः श्रीविश्वकर्मलोकेशः श्रीगेह्लोताराधेश्यामः श्रीबसेरनाहरुलालः श्रीअरोडाराजेशः श्रीमेहताराजेन्द्रः श्रीसोलंकीप्रतीकः इत्येते अन्ये चाध्यापकाः स्वविचारैः सभामलञ्चक्रुः । कार्यक्रमस्य कुशलं सूत्रसञ्चालनं श्रीमता जमडाकारुलालेन ‘कारुण्य’ इत्युपाख्येन व्यधायि । अन्ते च श्रीमत्या मेहताप्रेमलतामहाभागया सर्वेभ्यः कृतज्ञता ज्ञापिता ॥