संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
संस्कृत भारती

तिरुपतिस्थराष्ट्रियसंस्कृतविश्वविद्यालयस्य कुलपतिचराः
आचार्यमिगनकल्लु लक्ष्मीनरसिंहमूर्तिवर्याः हठात् कीर्तिशेषाः समभवन्।

संस्कृतभारत्याः विकासे आसीत् काचित् विशिष्टा भूमिका

।संस्कृतभारती। न हन्यते हन्यमाने शरीरे , वेदान्तविद्याविशारदाः साहित्यसङ्गीतकलाकुशलाः तिरुपतिस्थराष्ट्रियसंस्कृतविश्वविद्यालयस्य कुलपतिचराः आचार्यमिगनकल्लु लक्ष्मीनरसिंहमूर्तिवर्याः ( Prof MLN Moorthy Ji ) ह्य: सायं हठात् कीर्तिशेषाः समभवन् इति वार्तां श्रुत्वा नितान्तं दुःखम् अनुभवति संस्कृतलोकः। अमीषां शतशः शिष्याः बन्धुमित्रहितैषिणश्च आभारतं व्याप्ताः सन्ति । व्यक्तिगतरूपेण अहं नितरां तैरुपकृतः नानासन्दर्भेषु। सर्वेषु सर्वदा स्निह्यन्तीति प्रह्यस्तनस्तेषां सन्देशः प्रमाणम्। सर्वै: सर्वात्मप्रियसंस्कृतजनैश्च केन्द्रीयसंस्कृतविश्वविद्यालयस्य परिवारपक्षतश्च भावपूर्णा श्रद्धाञ्जलिः परिवारस्य च दुःखसंवेदनाः प्रकटिता: ।

अद्वैतवेदान्ते मूर्धन्यः विद्वान् आचार्य: एम् एल् एन् मूर्तिमहोदयः 27.02.2023 इति दिनाङ्के हृदयाघातेन दिवङ्गतः इति महतः दुःखस्य विषयः। न केवलं वेदान्ते अपि च व्याकरणे साहित्ये तथा अन्यदर्शनेषु च प्रगाढं पाण्डित्यं महोदयस्य आसीत्।
तिरुपतिस्थस्य राष्ट्रियसंस्कृतविश्वविद्यालयस्य आचार्यः एषः महोदयः पारम्परिकशास्त्रसंरक्षणे कटिबद्धः सन् बहून् शास्त्रपारगान् शिष्यान् निर्मितवान्। अपि च सम्भाषणान्दोलने बहून् प्रेरयतः एतस्य महोदयस्य संस्कृतभारत्याः विकासे आसीत् काचित् विशिष्टा भूमिका। महोदयस्य वियोगः संस्कृतलोकस्य तीव्रः आघातः अपूरणीया क्षतिश्च। वयं सश्रद्धं महोदयाय भावपूर्णश्रद्धाञ्जलिं समर्पयामः।
ॐ शान्तिः शान्तिः शान्तिः।

गोपबन्धुमिश्र:।अध्यक्ष: संस्कृतभारती।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button