संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
संस्कृत भारती

उत्साहः, विश्वासः, अहंकार, धैर्यं च संस्कृतयुवकानां वैशिष्ट्यम् अस्ति–“श्रीदिनेशकामत:”

युवामहोत्सवे विजय-वैजयन्त्या सह जयपुरपरिसरः विजयी

डा.पवनव्यास:।जयपुर। अद्यतनः संस्कृतस्य छात्रः उत्साहेन, आत्मविश्वासेन, धैर्येण, जिज्ञासाभिः, आत्मसम्मानेन च परिपूर्णः अस्ति यतः सः संस्कृतेन चिन्तयति, संस्कृतं च वदति। प्रत्येकं संस्कृतयुवकः ‘संस्कृतेन पाठनं संस्कृताय जीवनम्’ इति मन्त्रेण राष्ट्रनिर्माणकार्यं कर्तुं प्रवृत्तः भवेत्। सम्प्रति भारतस्य स्वातन्त्र्यस्य अमृतकालः प्रचलति, अस्मिन् अमृतकाले अमृतभाषायाः प्रचारः सम्पूर्णे विश्वे करणीयः।
उपर्युक्तविचाराः केन्द्रीयसंस्कृतविश्वविद्यालयस्य जयपुरपरिसरस्य त्रिदिवसीययुवामहोत्सवस्य समापनकार्यक्रमे विशेषातिथिरूपेण संस्कृतभारत्याः अखिलभारतीयसङ्गठनमन्त्रिणा श्रीदिनेशकामतेन प्रकटिताः।

कार्यक्रमस्य मुख्यातिथिः श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य कुलपतिः प्रो.ललितपटेलः छात्रान् सम्बोधयन् अवदत् यत् विजयस्य पराजयस्य वा चिन्तां न कृत्वा नवोदयराष्ट्रस्य आकांक्षां मनसि कृत्वा संस्कृतस्पर्धासु भागं ग्रहीतव्यम्।

अध्यक्षीयभाषणं कुर्वन् जयपुरपरिसरस्य निदेशक: प्रो. सुदेशकुमारशर्मा उक्तवान् यत् यदा युवामहोत्सवस्य परिकल्पना अभवत् तदा तस्य प्रारम्भिककालस्य शैक्षणिकप्रतियोगितानां एव समावेशः अभवत्, पश्चात् सांस्कृतिकप्रतियोगिताः अपि योजिताः, ततः पश्चात् तस्मिन् क्रीडाप्रतियोगितानां समावेशकारणात् अयं महोत्सवः छात्राणां मध्ये अधिक: लोकप्रियः जातः। इत्यस्य सर्वतोमुखविकासे महत्त्वपूर्णां भूमिकां निर्वहति

वैदिक-आवाहनात् आरभ्य अतिथिनां भाषणानन्तरं विजयी छात्राणां पुरस्कारः प्रदत्तः । युवामहोत्सवे अधिकतमं पुरस्कारं प्राप्य विजय-वैजयंत्या सह जयपुरपरिसरः विजयी अभवत् । भोपालपरिसर: द्वितीय:, लखनऊ-परिसर: तृतीय: तथा हरियाणासंस्कृतविद्यापीठ:, भगौला चतुर्थ: प्राप्त:। उल्लेखनीयं यत् अस्मिन् त्रिदिवसीययुवकमहोत्सवे अनेका: शैक्षणिक-सांस्कृतिक-क्रीडा-प्रतियोगिता: आयोजिता: यस्मिन् एतेभ्यः चतुर्णां राज्यानां राजस्थान-मध्यप्रदेश-उत्तरप्रदेश-हरियाणा-देशेभ्यः सप्तदलै: भाग: गृहीत:।
प्रतिवेदनस्य पाठस्य आयोजनं युवामहोत्सवस्य समन्वयकः प्रो. फतेहसिंहः अकरोत् । स्वागतभाषणं डॉ. पवनव्यास:, धन्यवादज्ञापनं प्रो. सत्यमकुमारी एवं संचालनं प्रो. वाय्. एस्. रमेशः क्रमश: कृतवन्त: । पुरस्कारघोषणाकार्यक्रमस्य संयोजनं डॉ. प्रमोदबुटोलिया, डॉ. रेखापाण्डेय: एवं श्री अभिषेकशर्मा कृतवन्त:

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button