संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
पंजाबसंस्कृत भारती

नाभायां संस्कृतभारत्या: संस्कृतसम्भाषणशिबिरस्य समापनसमारोहः

भाई-कान्ह-सिंह-नाभा-सीनियर-सेकेंडरी-स्कूल (कन्या) इत्यस्मिन् विद्यालये नाभायां संस्कृतभारत्या: संचाल्यमाणस्य संस्कृतसम्भाषणशिबिरस्य समापनसमारोहः जात:।
अयं संस्कृतसम्भाषणशिबिरं विंशतिदिनाङ्कत: त्रिंशत् दिनाङक-पर्यन्तम् आसीत्।

समापनसमारोहे मुख्यातिथिरुपेण पञ्जाबप्रान्तस्य पटियालाजनपदमन्त्री श्रीमद्गगनदीपपाठकमहोदयः समुपस्थितः आसीत् । मुख्यातिथिमहोदयः ‘संस्कृतभाषायाः महत्त्वम्’ इति विषयम् समधिकृत्य मार्गदर्शनं कृतवान् । समापनसमारोहे विद्यालयस्य प्रधानाचार्यः श्रीमान् गुरजीतसिंहमहोदयः अपि आसीत् । तेन संस्कृतं विषये उक्तं यत् संस्कृतं सुमधुरा रम्या भाषा च अस्ति। शिबिरेस्मिन् शताधिकछात्रा: भागं अगृह्णन्।

समापनसमारोहेस्मिन् विविधा: कार्यक्रमाः सञ्जाताः । कार्यक्रमस्य प्रारम्भ: दीपमन्त्रेण जात: । कार्यक्रमे ध्येयमन्त्र: परमजीतमहोदयया जात: । दश -दिवसीयस्य शिबिरस्य अनुभवकथनं गुर-अमानतवर्यया जातम् । श्लोकोच्चारणं निशामहोदयया कृतम् । सामुहिकगीतं सिमरन: , पालकी , लवप्रीत: ‘ अर्शदीपमहोदयादिभिः गीतम् । लघुनाटकम् अपि छात्राभिः कृतम् । एकलगीतं रोहानीमहोदयया कृतम् । नृत्यं रोहानीशशिकामहोदयया च कृतम् । कार्यक्रमे अभिनयनृत्यं अपि सञ्जातम् । विद्यालयस्य प्रधानाचार्येण मुख्यातिथिमहोदयाय शिबिरचालकमनीषमहोदयाय तथा सहशिक्षिकायै अर्शदीपायै उपहाररूपेण स्मृतिचिन्हं प्रदत्तम् ।अस्मिन् संभाषणशिबिरे विद्यालयस्य संस्कृतशिक्षकयोः वीरवन्तम-राजेन्द्रमहोदयोश्च पूर्णसहयोगम् अभवत् । कार्यक्रमस्य समापनं शान्तिमन्त्रेण सञ्जातम् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button