संस्कृतभारती-पंजाब: संस्कृतसप्ताहस्य योजनागोष्ठी सम्पन्ना
संस्कृतसप्ताहस्य पूर्वसंध्यावेलायां संस्कृतसप्ताहावसरे क्रियमाणानां कार्यक्रमाणां चर्चाविषयकी संगोष्ठी सम्पन्ना। संगोष्ठ्यां पंजाबत: चत्वारिंशतासन्ना: कार्यकर्तार: संयुक्ता: । संगोष्ठ्यामस्यां संस्कृतभारत्या: उत्तरक्षेत्रसंगठनमन्त्री श्रीमान् नरेन्द्र: अपि संयुक्त: येन ‘संस्कृतसप्ताहं कथमाचरणीयम्’ विषये निजविचारा: सम्प्रेषिता:। पुन: उत्तरक्षेत्रसम्पर्कप्रमुखेन संस्कृतसप्ताहस्य शुभकामना: दत्ता: । अस्य कार्यक्रमस्य अध्क्षतां कुर्वाण: डॉ. वीरेन्द्रकुमार: ‘पंजाबप्रदेशे कुत्र-कुत्र कानि कानि कार्यक्रमाणि भविष्यन्ति’ विषये चर्चां कृतवान् ।
संगोष्ठ्या: संचालनं प्रान्त-सह-मन्त्रिणा अजयकुमार-आर्येण कृतम् । मन्त्रीमहोदयेन श्री-संजीवश्रीवास्तवेन आगतानां धन्यवाद: कृत: । संगोष्ठ्यां पंजाब-सम्पर्कप्रमुख: श्री-उदयन-आर्य: , शिक्षणप्रमुख:-भगवतीप्रसाद:,रूपनगत: हैपीशर्मा पंकजशर्मा अशोकशर्मा च, जालन्धरत: गोपीशर्मा, नाभासंयोजक: ——-,पटियालामंत्री गगनदीप-पाठक:,पटियाला-विभागसहसंयोजक: ओमनदीप:,आयुर्वेद-महाविद्यालय-पटियालात: रीना सोढी,पातड़ांत: रीकुं शर्मा, मानसात: जगमेलशास्त्री, नाभातः प्रधानाध्यापकः जीवनमहोदयः एवं मोहितमहोदयः बरनालात: हरदीपशास्त्री प्रमुखरूपेण सम्युक्ता: आसन् ।