संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
कण्वनगरीकोटद्वार

विद्यामन्दिरस्य छात्रै: सांस्कृतिककार्यक्रमाः प्रस्तुतीकृता: ।

प्रेषक:-रोहितबलोदी। कोटद्वारं।
77तमे स्वतन्त्रताया: अमृतमहोत्सवे रितेशशर्मासरस्वतीविद्यामन्दिरे इण्टर-कॉलेज-जानकीनगर-कोटद्वारे विद्यालयस्य प्राङ्गणे विद्यालयप्रबन्धसमित्या विद्यालयस्य प्रधानाचार्येण प्रथमः ध्वजारोहणकार्यक्रमः आयोजितः। तदनन्तरं विद्यालयस्य बालकाः वरिष्ठाः छात्राः च सांस्कृतिककार्यक्रमाः प्रस्तुतवन्तः। शिशुमन्दिरस्य छात्रैः “फिर भी दिल है हिन्दुस्तानी “तथा” नन्हा मुन्ना राही” इति गीतेषु स्वस्य प्रस्तुतिः प्रस्तुता। विद्यामन्दिरस्य एव छात्राः देशस्य वीरपुत्राणां स्मृतौ नाटकं नृत्यं च कृतवन्तः । कार्यक्रमस्य संचालनं आचार्य: रोहितबलोदी कृतवान्। अवसरेस्मिन् वि‌द्यालस्य संरक्षकः द्वारिकाप्रसाद-अग्रवालः, प्रबन्धक: राजेन्द्रजखमोला, उपाध्यक्षा , मीनाक्षीशर्मा, सहप्रबन्धकः के.पी.नैथानी, प्रधानाचार्यः मनोजकुमारकुकरेती, एवं अभिभावकबान्धवः आदयः उपस्थिताः आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button