संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वार

कण्वनगर्यां विधानसभाध्यक्षाया: च शिक्षामन्त्रिण: सौजन्येन तिरंगाशोभायात्रा सफला अभवत् ।

√ उत्तराखण्डस्य स्वातन्त्र्यसेनानी विशनीदेवी ऋतुभूषणखण्डूरीद्वारा स्मारिताभवत्। √ १३ तः १५ दिनाङ्कपर्यन्तं प्रत्येकं गृहे तिरङ्गः प्रसारयेत् -"शिक्षामन्त्री डा.धनसिंहरावत:"। ✓अस्माकं जीवने सर्वाधिकं महत्त्वं अनुशासनस्य वर्तते- "मुख्यशिक्षाधिकारी श्रीदिनेशगौडः" ।

कोटद्वारम्। कण्वनगरीकोटद्वारे शनिवासरे तिरंगाशोभयात्राकार्यक्रम: आर्यकन्या-इण्टर-कॉलेज इत्यत: समारभ्य झण्डाचौकत: नगरनिगमसभागारपर्यन्तं प्राचलत् । माननीयशिक्षा मंत्री डॉ. धनसिंहरावत: एवं विधानसभाध्यक्षा आदरणीया श्रीमती ऋतुभूषणखण्डूरी एवं मुख्यशिक्षाधिकारी श्री दिनेशगौड: एवं खण्डशिक्षाधिकारी श्री अयाजुद्दीन: शोभायात्राया: सञ्चालनं च विधिवत्कार्यक्रमस्य शुभारम्भं दीपप्रज्ज्वालनेन कृतवन्त: । विद्यालयानां सर्वे प्रधानाचार्या: शिक्षका:, छात्रा: च अत्र समुपस्थिता: अभवन् ।

अस्मिन् अवसरे कोटद्वारविधायिका च उत्तराखण्डविधानसभा अध्यक्षा च उक्तवती यत्, ये बलिदानवीरा: देशस्य रक्षणं कृतवन्तः, तेषां कृते सर्वप्रथमं नमस्कारः करणीयः। सा अवदत् बिशनीदेवी या १९०२ तमे वर्षे बागेश्वरनगरे जन्म प्राप्य १४ वर्षे विवाहं कृत्वा १६ वर्षे विधवा अभवत् । विशनीदेवी उत्तराखण्डस्य प्रथमा स्वातन्त्र्यसेनानी इति मन्यते स्वातन्त्र्यान्दोलने आसीत् महत् योगदानं । सा देशे बलिदानीसैनिकानाम् परिवारैः सह संवादं कृत्वा, तेषां प्रोत्साहनं च कृत्वा तेषां साहाय्यं कृतवती । एतादृशानां प्रेरणादायकानां त्यागमूर्तिनां कृते अस्माकं शतप्रतिशतम् नमस्कारः। माननीयविधानसभाध्यक्षया अस्मिन् अवसरे सर्वेभ्यः तिरङ्गशोभयात्रायाः शपथं प्रदत्तवती।

शिक्षामन्त्री डॉ. धनसिंह रावतः अवसरेस्मिन् उक्तवान् यत् सम्पूर्णे देशे प्रतिगृहं तिरंगा तथा “मेरी मटी मेरा देश” इत्यभियानं प्रधानमन्त्रिणा चालितं वर्तते। एतस्य कृते प्रधानमन्त्रिणः अपि धन्यवादं दत्तवान्। सः अवदत् यत् तिरङ्गशोभायात्रा कार्यक्रमस्य अन्तर्गतं निगमस्तरपर्यन्तं पंचायतस्तरपर्यन्तं च प्रशासनाय तिरङ्गः उपलभ्यते येन सम्पूर्णदेशस्य प्रत्येकस्मिन् ग्रामे १३ तः १५ दिनाङ्कपर्यन्तं प्रत्येकं गृहे तिरङ्गः उत्थापितः भवेत्।

गणमान्यजनानाम्, शिक्षकाणां, छात्राणां च अभिवादनं कुर्वन् मुख्यशिक्षाधिकारी श्रीदिनेशगौडः अवदत् यत् कोटद्वारनगरे आपदासदृशे परिस्थितौ अल्पकाले एव शोभायात्रायाः बृहत्रूपेण आयोजनं शिक्षकाणां छात्राणां सहयोगेन सफलोभवत् तदर्थं ते साधुवादार्हा: सः संक्षेपेण अवदत् यत् अस्माकं जीवने सर्वाधिकं महत्त्वं अनुशासनस्य वर्तते। येन अस्माकं जीवनं सफलं भवति, यो हि अस्मान् समये गन्तुं शिक्षयति।

कार्यक्रमस्य संयोजनं श्रीमती बबिता ध्यानी कृतवती। कार्यक्रमसमन्वयक: श्री पदमेशबुडाकोटी सर्वेषाम् आभारं प्रकटितवान्। अन्ते राष्ट्रगीतेन कार्यक्रमस्य समाप्तिः अभवत् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button