संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
गुजरातसंस्कृत भारती

संस्कृतभारत्या: द्विदिवसीय: गुर्जरप्रान्ताभ्यासवर्ग: सम्पन्न:

त्रयोदशजनपदानां द्वात्रिंशत्कार्यकर्तार: कृतवन्त: प्रतिभागं

प्रेषिका-डा.श्रुतित्रिवेदी। गुर्जरप्रान्त: ।
संस्कृतभारतीगुर्जरप्रान्तस्य प्रान्ताभ्यासवर्ग:
५ – ६ जुलाई २०२३ दिनांके सम्पन्न: अभवत्। अस्मिन्अभ्यासवर्गे ७ विभागेषु १३ जनपदेषु ३२ कार्यकर्तारः उत्साहेन भागं गृहीतवन्तः मार्गदर्शनं च प्राप्तवन्त:।

अभ्यासवर्गे प्रान्ताध्यक्षस्य श्री निरूलावर्यस्य तथा च अखिलभारतीयप्रचारप्रमुखस्य श्रीशिरीषमहोदयस्य प्रेरकोपस्थिति: आसीत्। श्रीशिरीषवर्येणात्र प्रचारोपायपाथेयं प्रदत्तं यत् अस्माभि: सर्वै: योजनारूपेण सन्नद्ध: भवितव्य: । सामाजिकजनेषु च संस्कृतेतरक्षेत्रेषु अस्माकं प्रचार: अधिक: भवेत् । द्वात्रिंशत् कार्यकर्तार: संस्कृतभारत्या: उद्देश्यानुगुणं वर्गे सम्यगभ्यासं विहितवन्त: ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button