संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

अमरवीरबलिदानी मनदीपसिहरावत: पुण्यतिथौ कोटद्वारेण श्रदाञ्जलिद्वारा संस्मृत:

ग्रीन-आर्मी -देवभूमि-उत्तराखण्डम् इत्यस्य स्वयंसेवका: विद्यालयपरिसरे मनदीपरावतस्य स्मृतौ रुद्राक्षवृक्षारोपणं कृतवन्त:

कण्वनगरीकोटद्वारे मेहरबानसिंहकण्डारीसरस्वती- विद्यामंदिरकोटद्वारस्य परिसरे विद्यालयपरिवारेण एवं ग्रीन-आर्मीदेवभूमि-उत्तराखण्डं इत्यस्य स्वयंसेवकै: मरणोपरान्ते सेनाया: बलिदानीसशस्त्रसैनिकस्य मन्दीपसिंहरावतस्य पञ्चमपुण्यतिथे: उपलक्ष्ये श्रद्धांजलिसभाया: आयोजनं सञ्जातं । वीरहुतात्मन: मनदीपरावतस्य मात्रा श्रीमतीसुमादेवीद्वारा एवं श्रीकिशोरकुमारलखेडाद्वारा एवं विद्यालयगुरुजनैश्च तथा च स्वयंसेवकै: श्रद्धासुमनार्पिता: ।

अवसरेस्मिन् प्रधानाचार्य: श्रीचंदनसिंहनकोटी एवं श्री किशोरकुमारलखेडा च ग्रीन-आर्मी -देवभूमि-उत्तराखण्डम् इत्यस्य स्वयंसेवका: विद्यालयपरिसरे मनदीपरावतस्य स्मृतौ रुद्राक्षवृक्षारोपणं कृतवन्त: ।

सर्वादौ प्रधानाचार्य: स्वर्गीयमनदीपसिंहरावतस्य मातु: सम्मानं वस्त्रालंकरणेन कृतवान्। श्रद्धाञ्जलिकार्यक्रमे श्रद्धांजलिं समर्पयन् विद्यालयस्य प्रधानाचार्य: श्री चंदनसिंहनकोटी श्रीकिशोरकुमारलखेडा , छात्रा ऋतुरावत: एवं अंशिका स्वविचारं प्रकटितवन्त: । ग्रीन-आर्मी -देवभूमि-उत्तराखण्डस्य कोषाध्यक्ष: उत्कर्षनेगी वीरबलिदानाय स्वरचितकवितापाठं कृतवान् तत्रैव अध्यक्ष: शिवमनेगी सम्प्रेरितवान् यत् अस्माभि: बलिदानिन: स्मरणीया: सदा एव ।
कार्यक्रमे स्वयंसेवका: नैंसीरावत:, साक्षी सिंघी, आयुषगुप्ता एवं समस्तविद्यालयपरिवार: गणमान्यै: सह उपस्थिता: आसन्

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button