संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देशविदेशसंस्कृत भारती

चेम्मण्डाशारदागुरुकुले छात्रेभ्यः त्रिदिनात्मकः विशेषवर्ग:

• नृत्त-संगीत-संस्कृतविषयेषु छात्रेभ्यः प्राथमिकज्ञान प्राप्तिः एव कार्यक्रमस्य उद्देश्यः --"डा.वन्दना"

त्रिश्शिवपेरूर्। चेम्मण्डाशारदागुरुकुले छात्रेभ्य:
नृत्तसंगीतसंस्कृतसोपानस्य त्रिदिनात्मकस्य विशेषवर्गस्य आरम्भ: अभवत्। विरामकालस्य त्रिदिवसीयवर्गस्य उद्घाटनं चेन्नईकलाक्षेत्रत: प्रीतिनीरज: कृतवती। कार्यक्रमे संस्कृतकार्यकर्ता
अजितन् वारियर् अस्य वर्गस्य आद्ध्यक्षं निरवहत्। कार्मक्रमस्यारम्भे कुमारी कृष्णप्रिया प्रार्थनां,श्रीजा भगिनी अतिथीनां स्वागतं तथा कुमारी लक्ष्मीप्रिया
सर्वेषाम् समागतानां कार्तज्ञ्यं च विहितवत्य:। नृत्त-संगीत-संस्कृतविषयेषु छात्रेभ्यः प्राथमिकज्ञानप्राप्ति: एव कार्यक्रमस्य उद्देश्यः इति गुरुकुलस्य प्राध्यापिका डा. वन्दना अवदत्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button