उत्तरप्रदेशसंस्कृत भारती

संस्कृते समाहितानि सन्ति सर्वाणि जीवनस्रोतांसि — “विनयश्रीवास्तवः”

वार्ताहर: – सचिन शर्मा , मोदीनगरम् , उत्तरप्रदेश:। मईमासस्य संस्कृतभाषा शिक्षणकक्षासमापनसत्रस्य आयोजनं उत्तरप्रदेशसंस्कृतसंस्थान, लखनऊद्वारा संचालितसंस्कृतभाषाशिक्षणकक्षाणाम् अन्तर्गतमभवत् । सत्रे सर्वप्रशिक्षकाः उपस्थिताः आसन्। आदौ सरस्वतीवन्दनया सह वैदिकाह्वानं एकलगीतानि च प्रस्तुतानि आसन्। स्वागतगीतात् परं सर्वे प्रशिक्षकाः उ० प्र० संस्कृतसंस्थानकक्षाणां स्वानुभवं प्रकटीकृतवन्तः। समापनकार्यक्रमस्य अवसरे प्रदेशसंस्कृतसंस्थानस्य निदेशकः विनयश्रीवास्तवः सर्वमूलं संस्कृतम् इति अवदत्। संस्कृते प्राप्तानि सर्वाणि शास्त्राणि भारतस्य वैभवं दर्शयन्ति। सः अवदत् यत् धर्मशास्त्राणि अस्माकं जीवनचर्यां वर्णयन्ति। यदि वयं किमपि प्राप्तुमिच्छाम: तस्य एकमेव स्थानं संस्कृतमस्ति । अस्माभिः संस्कृताध्ययनेन सुजीवनं करणीयम्। तेन सह उत्तरप्रदेशसंस्कृतसंस्थानस्य निदेशकः विनयश्रीवास्तवः अपि समापनस्य अवसरे देशस्य विश्वस्य च प्रति अस्माकं दायित्वस्य विषये अवदत्। योजनायामस्यां अधिकतमपञ्जीकरणेन जनानां लाभः, प्रशिक्षकाणां अथकपरिश्रमस्य कारणेन कक्षासञ्चालनार्थं प्रोत्साहनं, योजनायामस्यां नूतनानां जनानां अध्यापनस्य अवसराः च इत्यस्मिन् विषये अपि चर्चाः कृताः । कार्यक्रमे सर्वे प्रशिक्षकाः उपस्थिताः आसन्। तत्र योजना सर्वेक्षक डॉ. जगदानंद झा, प्रशिक्षण प्रमुख: ,सुधिष्ठ मिश्र:, संस्थाधिकारी श्री चंद्रकला शाक्य:, प्रशिक्षण समन्वयक: धीरज मैठाणी, नागेश दुबे, दिव्यारंजन:, राधा शर्मा इत्यादयः उपस्थिताः आसन्। अन्ते प्रशिक्षकाः शान्तिमन्त्रेण सत्रस्य समापनम् अकुर्वन्। संस्कृतभाषावर्गाणां (उभयस्तरस्य) निःशुल्कपञ्जीकरणार्थम् https://sanskritsambhashan.com इत्यत्र द्रष्टुं शक्नुवन्ति

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button