संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डसंस्कृत भारतीहरिद्वार

संस्कृतभारती-पश्चिमी-उत्तरप्रदेशक्षेत्रस्य प्रशिक्षणवर्ग: हरिद्वारे प्रारभत्।

संस्कृतेन जीवने परिवर्तनम् आनयाम:--"श्रीप्रेमचन्द्रशास्त्रीवर्य:"

संस्कृतभारती-पश्चिमी-उत्तरप्रदेशक्षेत्रस्य प्रशिक्षणवर्ग: गुरुकुलकांगडीविश्वविद्यालयस्य विद्यालयपरिसरे हरिद्वारे प्रारभत् । 1.06.2023त: 14.06.2023 पर्यन्तं संस्कृतमयसम्भाषणशिक्षणेन वर्गोयं संजायते । यस्योद्घाटनं शुक्रवासरे पश्चिमीक्षेत्रसंगठनमन्त्रिणा श्रीप्रेमचन्द्रशास्त्रीवर्येण कृतं । सहैव प्रान्ताध्यक्षा जानकीत्रिपाठी च संस्कृत्विद्वत्सदस्येषु मोहरसिंहवीणा अरविन्दनारायणमिश्रा मातृसरस्वत्या: समक्षे माल्यार्पणेन अभिनन्दनं कृतवन्त: ।

श्रीप्रेमचन्द्रशास्त्रीवर्येण वर्गं सम्बोधयन् कथितं यत् वयं संस्कृतेन जीवने परिवर्तनम् आनयाम:। संस्कृतभारत्या: अधुना 80जनपदेषु संस्कृतकार्यं जायमानम् अस्ति । हरिद्वारे एष: प्रशिक्षणवर्ग: अन्यतम: वर्ग: । हरिद्वारे तु संस्कृततीर्थम् विद्यते । अत: राष्ट्रं परं वैभवन्नेतुं संस्कृतेन महान् लक्ष्यम् वयं पूरयाम: । वसुधैव कुटुम्बकम् इत्येवं संस्कृतेन वयं कर्तुं समर्था: भवाम: । संस्कृतज्ञा: देवतुल्या: भवन्ति । वयमपि देवतुल्यं परोपकारमयं संस्कृतेन निस्स्वार्थसेवां कुर्म: ।

श्रीमती जानकीत्रिपाठीमहोदयाद्वारा कार्यक्रमाध्यक्षरूपेणोक्तं यत् वयं गंगाया: समीपे भगीरथसदृशा: स्म: संस्कृतसम्भाषणेन वयं विश्वे संस्कृतं प्रसारयाम: । तस्य कृते अस्माभि: प्रयत्न: विधेय: । मेरठप्रान्तस्य विद्वत्परिषद्सदस्य: अपि वर्गं सम्बोधितवान्। संस्कृतभारत्या: त्रिप्रान्तस्तरीयस्य अस्य प्रशिक्षणवर्गे उत्तराखण्डप्रान्तत: मेरठप्रान्तत: व्रजप्रान्तत: प्रशिक्षणार्थिन: समागता: ।

वर्गशिक्षणप्रमुख: डा.प्रभाकरवर्य: । प्रान्तसहमन्त्री डा. हरीशगुरुरानी। गढसम्भागसंयोजक: रोशनगौडवर्य: । अरुणमिश्रवर्येण कार्यक्रमस्य सञ्चालनं कृतं। विद्यालयस्य प्रधानाचार्य: विजेन्द्रशास्त्री वर्गशिक्षणप्रमुख: प्रभाकरवर्य: । प्रान्तसहमन्त्री डा. हरीशगुरुरानी। गढसम्भागसंयोजक: रोशनगौडवर्य: । उपेन्द्रवर्य: । मेरठप्रान्तसंगठनमन्त्री श्रीयोगेशविद्यार्थी । उतराञ्चलप्रान्तसंगठनमन्त्री श्रीगौरवशास्त्री । सचिनशर्मा । वेदमित्र: । राजेश: । शिवमादय: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button