संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
हरिद्वार

संघे शक्ति:कलौयुगे

लघुकथा

डॉ0श्यामलालगौड़। एकदा एक: संघशिशो: आसीत्। स: प्रतिदिनं संघकार्यं करोति स्म,आगामी काले स: संघं विहाय स्वकीय जीवनं यापयति स्म।पुन:एकदा संघ प्रमुख:तं स्मृत्वा अन्विष्य च तस्य गृहे गच्छति ।
संघ प्रमुख: यदा तस्य गृहे प्रविशति तदा संघशिशो: चुल्किकोपरि भोजनं निर्माति स्म। संघशिशुना संघ प्रमुखं दृष्वा सादरेण अभिवादनं कृतम् ।
संघ प्रमुखेण अभिवादनं स्वीकृत्य तत्रेव चुल्लिकापार्श्वे उपविष्य चुल्लिकात: एकैकं कृत्वा काष्ठखण्डं वहिर्निष्कसति अन्तिमं यद् काष्ठखण्डमस्ति तं चुल्लिकामेव त्यजति। तदा सहसा चुल्लिकाया: अग्नि: समाप्तिम् अवापनोत् संघशिशो: घटनामेनं पश्यति स्म, पुनश्च संघप्रमुखेण एकैकं काष्ठखण्डं स्वीकृत्य चुल्लिकायाम् अन्ते प्रविशति तदा चुल्लिकापूर्ववत् ज्वलति स्म, संघशिशो: संघप्रमुस्य आशयमेनं अवगम्य संघस्य महत्वम् अजानत् । एकाकी मनो: कुत्रापि महत्वंनास्ति अपितु सर्वत्र संघस्यैव प्रामुख्यं। संघंविना मनो: न गृहे न समाजे किमपि कर्तुं न प्रभवितुं योग्य: ।
अत: व्यवहारकुशलानीतिनिपुणाश्चापि वदन्ति। संघेशक्ति: कलौयुगौ।।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button