संस्कृतभारतीनागपुरे संस्कृतसम्भाषण – शिबिरस्य समापन – समारोह: सम्पन्नः

वार्ताहर:- विनयसिंहराजपूत: ।संस्कृतभारती नागपुरम् ।
अद्य पाण्डे ले-आऊटस्थिते अस्माकं प्रान्तकार्यालये संस्कृतसम्भाषण – शिबिरस्य समापन – समारोह: सम्पन्नः अभवत् ।

प्रमुखातिथिरूपेण आयुर्वेदौषधनिर्मातर: डॉ विजय-शर्मामहोदया: एवं गडचिरोली – विश्वविद्यालयस्य कुलगुरवः मान्याः प्रशान्त – बोकारे महोदयाः उपस्थिताः आसन् । प्रमुखवक्तारूपेण अखिलभारतीयसम्पर्कप्रमुखाः मान्याः श्रीशदेवपुजारी – महोदयाः उद्बोधितवन्तः । यत् पठितं , प्राप्तं तस्य प्रयोगः करणीयः इति महोदयैः उक्तम् ।

शिबिरस्य प्रतिभागिनाः सुभाषितं , शाकापण – संवादं , मित्रमेलनम् लघुनाटिकां , सम्भवं भवामि एवं काकस्य कथा इति कथाद्वयं, विनोदकनिकां , सामूहिकशिबिरगीतं प्रस्तुतवन्तः ।

शिबिरस्य प्रशिक्षकाः विदर्भप्रान्तमन्त्रिणः मान्याः श्रीनिवास – वर्णेकरमहोदयाः प्रास्ताविकं कृतवन्तः । अद्यतनः समारोप-समारोहः बहूत्तमः सम्पन्नः अभवत् ।







