हरिद्वार

डा.रमेशपोखरियाल-निश्शंकवर्येण परीक्षासंवादे शिक्षका:, छात्रा: एवं अभिभावका: संबोधिता: ।

परीक्षा अस्माकं जीवनस्य अभिन्नः भागः अस्ति तथा च छात्रात् अधिकं तस्य महत्त्वं कोऽपि अवगन्तुं न शक्नोति

जगजीतपुरे हरिद्वारे DAV Centenary Public School द्वारा ‘आशीर्वाद समारोह एवं परीक्षा पूर्व तैयारियों पर संवाद’
इत्यस्मिन् कार्यक्रमे पूर्वमुख्यमन्त्रिणा पूर्वकेन्द्रशिक्षामन्त्रिणा डा.रमेशपोखरियालनिश्शंकवर्येण शिक्षका:, छात्रा: एवं अभिभावका: संबोधिता: ।

परीक्षा अस्माकं जीवनस्य अभिन्नः भागः अस्ति तथा च छात्रात् अधिकं तस्य महत्त्वं कोऽपि अवगन्तुं न शक्नोति। छात्रस्य ज्ञानस्य स्तरं मापनार्थं परीक्षा अनिवार्या अस्ति। मूल्याङ्कनस्य साधनरूपेण परीक्षा छात्राणां जीवने शिक्षणस्य महत्त्वपूर्णः घटकः भवति ।

यशस्वी प्रधानमन्त्री श्री नरेन्द्रमोदीवर्य: सदैव बोधयति यत् अस्माकं छात्राः एव परीक्षायाः चिन्ताम् न कुर्वन्ति अपितु विजेतारः भवेयुः। अहं सौभाग्यशाली अस्मि यत् शिक्षामन्त्रीरूपेण देशस्य छात्राणां, अभिभावकानां, शिक्षकाणां च सेवां कर्तुं अपि अवसरः प्राप्तः। छात्राणां सांस्कृतिककार्यक्रमाणाम् उत्तमप्रस्तुतिः कार्यक्रमे सर्वान् मोहितवन्तः।

अस्माकं छात्राः अस्य अवसरस्य अधिकतमं उपयोगं कृत्वा परिश्रमं करिष्यन्ति इति मम विश्वासः अस्ति। अस्माकं प्रियछात्राणां आगामिपरीक्षाणां कृते शुभकामना। अवसरेस्मिन् हरिद्वारजिलाध्यक्ष: श्रीसंदीपगोयल: च वरिष्ठाधिकारीगणा: उपस्थिता: आसन् ।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button