संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
नैनीताल

उत्तराखण्ड-संस्कृत-अकादमीद्वारा नैनीतालजनपदे समारप्स्यते अन्तर्जालीया संस्कृतगीतप्रतियोगिता

नैनीतालमण्डलस्य सर्वेषां सर्वकारी-अर्द्धसर्वकारीनिजीविद्यालयानाम् षष्ठतः अष्टमपर्यन्तं कक्षायाः सर्वे छात्राः भागं ग्रहीतुं शक्नुवन्ति

उत्तराखण्ड-संस्कृत-अकादमीद्वारा छात्राणां प्रचार-प्रवर्धन-संरक्षणाय स्वविकासाय जनपदस्तरीया अन्तर्जालीया संस्कृतगीतप्रतियोगिता 2022-23, आयोजिता। कनिष्ठस्तरे प्रतियोगितासु एकलमन्त्र: स्तोत्र: गीताश्लोक: संस्कृतगीतं सुभाषितगानं तथा संस्कृतवंदनागीतं च कार्यक्रमे सन्ति। षष्ठतः अष्टमपर्यन्तं कक्षायाः छात्राणां कृते प्रतियोगिता आयोज्यते, यस्मिन् नैनीतालमण्डलस्य सर्वेषां सर्वकारी-अर्द्धसर्वकारीनिजीविद्यालयानाम् षष्ठतः अष्टमपर्यन्तं कक्षायाः सर्वे छात्राः भागं ग्रहीतुं शक्नुवन्ति। उपर्युक्तप्रतियोगितासु प्रथमः,द्वितीयः,तृतीयः,द्वितीयः सान्त्वनापुरस्काराः अपि प्रदत्ताः भविष्यन्ति प्रथमपुरस्कारः ₹ 2000,द्वितीयपुरस्कारः ₹ 1500,तृतीयपुरस्कारः ₹ 1000,सान्त्वनापुरस्कारः 500-500 प्रदत्तः भविष्यति। अस्यां स्पर्धायां भागं ग्रहीतुं सर्वेषां प्रतिभागिनां कृते गूगल-प्रपत्रेण पञ्जीकरणं अनिवार्यम् अस्ति, पञ्जीकरणसमये भवन्तः अकादमीद्वारा निर्मितस्य व्हाट्सएप्प-समूहस्य अपि सम्मिलितुं
भवितुं शक्नुवन्ति।
प्रदत्तेन लिंकमाध्यमेन पंजीकरणं कर्तुं शक्यते।
https://forms.gle/cvtgj27BDL4Kyh2n8 प्रतियोगितानां पंजीकरणस्य अंतिमा तिथि: 14/02/2023 रात्रि 10:00 वादनं यावत् अस्ति वीडियो इत्यस्य अंतिमा तिथि: 17/02/2023 रात्रि 8:00 वादनं यावत् अस्ति । फेसबुक इत्यत्र अंतिमा तिथि: 24/02/2023 रात्रि 8:00 वादनं यावत्‌ अस्ति। विस्तृतसूचनार्थम् अकादम्या प्रदत्तानां नियमानाम् अवलोकनं कर्तुं शक्यते । अस्य कार्यक्रमस्य
जिलासमन्वयक: – डॉ. चन्द्र प्रकाश उप्रेती – 9410149033
सहसमन्वयक: – जगदीशचन्द्र जोशी – 8630519213 च स्त: ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button