संस्कृत भारती
विदर्भप्रान्तस्य नागपुरमहानगरे अभूत् दशदिवसीयसम्भाषणवर्ग:
विनयसिंहराजपूतेन संचालितं संस्कृतभारत्या: शिविरं
संस्कृतभारतीनागपुरमहानगर-विदर्भप्रान्तस्य एवं केंद्रीय-संस्कृत-विश्वविद्यालयस्य संस्कृताध्ययनकेन्द्र-नागपुरस्य संयुक्ततत्त्वावधानेन १० दिवसीय-संस्कृत-संभाषणवर्गस्य आयोजनं दिनाड्कः २५ अगस्ततः ४ सितंबरपर्यन्तम् संजातं । वर्गोयं संस्कृतभारतीकार्यालये “दत्ताजीडिडोलकरभवने, पांडे-ले-आउट” मध्ये अजायत्। अस्योद्घाटनसमारोहे मुख्यातिथिरूपेण प्रशांतपाण्डेयमहोदयः, कार्यक्रमाध्यक्षरूपेण श्रीमान् श्रीनिवासः वर्णेकरमहोदयः च उपस्थिताः आसन्। कार्यक्रमस्य संचालनं अमेयवैद्येन कृतम् । वर्गोयं संस्कृताध्ययनकेन्द्र-नागपुरस्य संस्कृतशिक्षकेन विनयसिंहराजपूतेन संचाल्यते । अवसरेsस्मिन्
नागपुरमहानगरस्य कार्यकर्तारः, प्रान्ताधिकारिणः ३० शिविरार्थीनः च उपस्थिताः आसन् ।