संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
विहार

संस्कृतभाषा संस्कारेण संस्कृत्या च समन्विताऽस्ति-“डा०रामसंयोगराय:”

बिहारराज्यस्य दरभङ्गाजनपदान्तर्गते कविनागार्जुनजन्मभूमौ अवस्थितेन नागार्जुनसंस्कृतमहाविद्यालयेन सितम्बरमासस्यैकादशदिनाङ्कादारभ्य द्वितीयं संस्कृतसम्भाषणशिविरमारब्धम्। शिविरस्योद्घाटनं कुर्वता महाविद्यालयस्य प्रभारिप्रधानाचार्येण डा०रामसंयोगरायवर्येण प्रोक्तं यत् संस्कृतभाषा संस्कारेण संस्कृत्या च समन्विताऽस्ति, या अस्मान् मूल्यपरकं जीवनं जीवितुं शिक्षयति। कार्यक्रमस्य संयोजकेन महाविद्यालयस्य दर्शनविषयकसहायकप्राध्यापकेन डा०छबिलालन्यौपानेमहोदयेन प्रोक्तं यत् संस्कृते संयमितम् अनुशासितं च जीवनं जीवितुं सर्वाण्यपि उदात्ततत्त्वानि निहितानि सन्ति। कार्यक्रमेऽस्मिन् महाविद्यालयीयच्छात्र-छात्राणां सहभागिता सक्रिया आसीत्। अवसरेऽस्मिन् महाविद्यालयस्यान्यैः शिक्षकैः कार्यालयकर्मिणा च संस्कृतभाषासम्ब्द्धाः स्व-स्वविचाराः प्रकटीकृताः।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button