जालन्धर-पञ्जाबप्रान्तस्य विभिन्नानां शैक्षणिकसंस्थानां प्रमुखैः, प्राचार्यैः, शिक्षकैः, छात्रैः सह च संस्कृतभारत्या: सम्पर्कः
संस्कृतसप्ताहस्य सम्पर्क-अभियानस्य अभिक्रम: संस्कृतभारतीद्वारा निरन्तरं संजायते
संस्कृतभारत्या: आयोजितस्य सम्पूर्णे भारते संस्कृतसप्ताहस्य सम्पर्क-अभियानस्य कालखण्डे अद्य 14 अगस्त 2024 दिनाङ्के जालन्धर-पञ्जाबप्रान्तस्य विभिन्नानां शैक्षणिकसंस्थानां प्रमुखैः, प्राचार्यैः, शिक्षकैः, छात्रैः सह च सम्पर्कः कृतः। यस्मिन् जालन्धरनगरस्य, द्वाबामहाविद्यालय:, एस.डी.महाविद्यालय:, एच.एन.बी.महाविद्यालय:, दयानन्द-आयुर्वेद-महाविद्यालयादिमहाविद्यालयेषु मुख्यरूपेण सम्पर्क: संजात:। एतस्मिनैव द्वाबामहाविद्यालयस्य प्राचार्य: डॉ. प्रदीपभण्डारी, एस.डी.महाविद्यालयस्य प्राचार्या डॉ. पूजापराशरः, आयुर्वेदमहाविद्यालयस्य प्राचार्यः डॉ. संजीवसूदः च सम्पर्ककाले संस्कृतभाषायाः प्रचार-प्रसारविषये चर्चां कृतवन्त:। तथा च द्वाबामहाविद्यालयेन आगामिनि संस्कृतसप्ताहे एकविंशतिदिनाङ्के संस्कृतगोष्ठ्या: कार्यक्रमस्य निर्णयः कृतः। अस्मिन् सम्पर्काभियाने समाजसेवी संस्कृतप्रेमी च श्रीअनिरुद्ध-प्रताप-सिंह:, पी.टी.यू.कपूरथलापंजाबस्य पूर्वसंकायाध्यक्ष:, संस्कृतभारत्या: प्रान्तसम्पर्कप्रमुख: डॉ. उदयनार्य:, प्रान्तशिक्षकप्रमुख: भगवतीप्रसाद: देवराडी इत्यादय: उपस्थिता आसन्।