देश

चन्द्रयान-तृतीयस्य मृद्ववतरणम्

चन्द्रयान – तृतीयस्य मृद्ववतरणम्(soft landing) अभवत् । एतत् भारतीयान्तरिक्षानुसन्धानसंगठनेन प्रेषितम्। अस्य प्रेक्षणं सतीशधवन-अंतरिक्षकेंद्रम् (शार:), श्रीहरिकोटा इत्येतस्मात् स्थानात् चतुर्दशजौलाई शुक्रवासरे मध्याह्ने अभवत्। अद्य च सायङ्काले चतुर्पलाधिकषड्वादने अस्य यानस्य मृद्ववतरणम्(soft landing) सफलीभूतम्। चन्द्रस्य दक्षिणे ध्रुवे गन्ता भारतदेशः प्रथमः देशः अस्ति।

अधुना “चन्दा मामा दूर हैं” इति काव्यं निष्फलं जातम्।

भारतस्य कृते एषा गर्वस्य वार्ता वर्तते। वैज्ञानिकाः एतदर्थं अभिनन्दनार्हाः सन्ति। अस्मिन् अवसरे प्रधानमंत्रिनरेन्द्रमोदीमहोदयः चलचित्र-सम्प्रसारणमाध्यमेन सर्वान् वैज्ञानिकान् देशवासिनः च सम्बोधितवान् शुभकामनाः च प्रेषितवान्। अस्य ऐतिहासिकक्षणस्य सर्वेभ्यः वैज्ञानिकेभ्यः देशवासिभ्यश्च हार्दिक्यः शुभकामनाः अभिनन्दनानि च प्रेषयामि।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button