संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेश

कुलपतिना प्रो. अन्नपूर्णानौटियालवर्यया “एफडीसी” इत्यस्य भवनस्य उद्घाटनं कृतं

।।केन्द्रस्य निदेशकः प्राध्यापकः इन्दुपाण्डेयखण्डूरी इत्यनया कथितं यत् शीघ्रमेव संकायविकासकेन्द्रं मालवीयमिशनकेन्द्रम् इति नाम्ना प्रसिद्धं भविष्यति। सर्वकारस्य आगामिनियोजनानुसारम् अयं केन्द्रः यूजीसी-माध्यमेन नूतननाम्ना नूतनरूपेण स्वस्य कार्यक्रमान् करिष्यति। अस्य अन्तर्गतं देशे सर्वत्र उच्चशिक्षणसंस्थासु कार्यं कुर्वन्तः शिक्षकाः प्रशिक्षिताः भविष्यन्ति।।

श्रीनगरं।हेमवतीनन्दनबहुगुणागढ़वालकेन्द्रीयविश्वविद्यालये
भारतसर्वकारस्य पीएमएमएमटीटी इत्यस्या: योजनायाः अन्तर्गतं संचालितं संकायविकासकेन्द्रकार्यालयम् अद्य, २४ अगस्त २०२३ दिनाङ्के चौरसपरिसरस्य नवनिर्मितभवने स्थानान्तरितम्। अस्य भवनस्य विधिवत् उद्घाटनं विश्वविद्यालयस्य कुलपतिना प्राध्यापिकया अन्नपूर्णानौटियालवर्यया कृतम् अस्ति। अस्मिन् अवसरे कुलपतिः अवदत् यत् शैक्षणिकभवनानि केवलं तेषु क्रियमाणैः शैक्षणिकक्रियाकलापैः, कार्यक्रमैः च सार्थकं भवन्ति। आशासे यत् संकायविकासकेन्द्रं पूर्ववत् आगामिदिनेषु सार्थकशैक्षणिकक्रियाकलापं सफलतया करिष्यति। एतत् भवनं पीएमएमएनएमटीटी-इत्यन्तर्गतं शिक्षामन्त्रालयस्य वित्तीय-अनुदानेन (३.९ कोटिरूप्यकाणि) निर्मितम् अस्ति ।

ज्ञातव्यं यत् नवनिर्मितभवनस्य उद्घाटनं हवनपूजनेन सह संगठितरूपेण कृतम् अस्ति। अवसरेस्मिन् संकायविकासकेन्द्रस्य शासकीयनिकायसदस्य: प्राध्यापक: विनोदनौटियाल: तथा प्राध्यापक: आर.के.मैखुरी अपि उपस्थाय शुभकामनां प्रकटितवन्त:। एतेन सह अस्य केन्द्रस्य निदेशकः प्राध्यापकः इन्दुपाण्डेयखण्डूरी इत्यनया कथितं यत् शीघ्रमेव संकायविकासकेन्द्रं मालवीयमिशनकेन्द्रम् इति नाम्ना प्रसिद्धं भविष्यति। सर्वकारस्य आगामिनियोजनानुसारम् अयं केन्द्रः यूजीसी-माध्यमेन नूतननाम्ना नूतनरूपेण स्वस्य कार्यक्रमान् करिष्यति। अस्य अन्तर्गतं देशे सर्वत्र उच्चशिक्षणसंस्थासु कार्यं कुर्वन्तः शिक्षकाः प्रशिक्षिताः भविष्यन्ति।
पीएमएमएमएनटी-अन्तर्गतं संचालितकेन्द्रेषु अस्य मिशनस्य कृते यूजीसी-द्वारा देशस्य सर्वेभ्यः ४४ केन्द्रेभ्यः एव चयनं कृतम् अस्ति, यस्मिन् हेमवतीनन्दन- बहुगुणा-गढ़वाल- विश्वविद्यालयस्य संकाय-विकासकेन्द्रमपि एकम् अस्ति

अस्मिन् अवसरे विश्वविद्यालयस्य कुलपतिः, वित्तपदाधिकारी, निदेशकः आईक्यूएसी, तथैव अनेके निर्देशका:, संकाया:, पूर्ववर्तीवर्तमानदलस्य च एफडीसी सदस्याः उपस्थिताः आसन्। अभियांत्रिकीवर्गेण सह भवनस्य निर्माणे अन्ये च प्रबन्धने कनिष्ठ-अभियंताः नितिनजोशी, सन्दीपराणा, चित्रादलस्य सदस्याः च विशेषसहकार्यं कृतवन्तः।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button