संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देशविदेश

नवसंसद्भवनोद्घाटनम् ऐतिहासिक: गर्वमय:

लोकहितं मम करणीयं ---"प्रधानमन्त्रीमोदी"

दिल्ली। प्रधानमन्त्री नरेन्द्रमोदी जुलै २८ तमे दिनाङ्के ऐतिहासिकक्षणस्य गर्वमयस्य नूतनसंसद्भवनस्य उद्घाटनम् कृतवान्। सर्वप्रथमं महात्मागान्धिप्रतिमायाः समीपे पुष्पार्पणमकरोत्। पुन: सर्वधर्माचार्याणां समक्षे सेंगोलधर्मदण्डस्य अर्चनं च होम-पूजादिविधिं विहितं। गौरवमयक्षणस्य अवसरेत्र प्रधानमन्त्री नरेन्द्रमोदी, लोकसभा अध्यक्षः ओम् बिर्ला, राज्यसभायाः उपसभाध्यक्ष: च कार्यक्रमे भागं गृहीतवन्त:। प्रधानमन्त्रिणा लोकसभायाः अन्तर्भागे प्रातः ९ वादने राजदण्डः अस्थापयत्। १२ वादने राष्ट्रगीतकार्यक्रमस्य द्वितीयचरण: समारब्ध:।

नवसंसदभवने राज्यसभायाः उपाध्यक्षः सर्वेषां वरेण्यानां स्वागतभाषणमकारयत्। राज्यसभायाः उपाध्यक्षः, राष्ट्रपतिः द्रौपदी मुर्मूः, उपराष्ट्रपतिः जगदीपधनकरः इत्यनयो: सन्देशः लोकसभायाः उपाध्यक्षः पठितवान्। कार्यक्रमस्यावसरेत्र लघुचलच्चित्रद्वयस्य प्रदर्शनं स्मृतिरूप -नाणकस्य चित्रमुद्रायाश्च (postal stamp) प्रकाशनम् अभवत्। अवसरेस्मिन् प्रधानमन्त्रिणा कथितं यत् लोकहितं मम करणीयमिति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button