संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वार

विद्यामन्दिरजानकीनगरे द्विदिवसीया क्रीडा समारभत्

कोटद्वार। रितेशशर्मासरस्वतीविद्यामंदिरे इण्टरकॉलेजजानकीनगरे कण्वनगरीकोटद्वारे द्विदिवसीयक्रीडाप्रतियोगिता प्रारभत्।
मातृसरस्वत्या: समक्षे दीपं प्रज्ज्वाल्य विद्यालयस्य प्रधानाचार्य: मनोजकुकरेती , क्रीडाशिक्षक: मोहनसिंहगुसांई संयुक्तरूपेण शुभारंभं कृतवन्त: । तदनन्तरं प्रयाणसंचलनं पश्चात् विद्यालये क्रीडायाः आरम्भः अभवत् अद्यत्वे क्रीडास्पर्धासु ६, ७,८ कक्षायाः छात्राः कनिष्ठविभागे भागं गृहीतवन्तः । यत्र बालककनिष्ठवर्गे प्रथम:, आयुष: द्वितीय: एवं आदित्य: व यश: तृतीय: आसन्। बालिकावर्गे प्रियंआशी प्रथमा, गुंजनद्वितीया, लवण्या तृतीया आसन् । बालकवर्गे 200 मीटरधावने प्रियांशु असवाल: प्रथम:, आयुषकुमार: द्वितीय:, आदित्यबिष्ट: तृतीय: बालिकावर्गे 200 मीटरधावने प्रियांशी प्रथमा, लवण्या द्वितीया, सोनाक्षी तृतीया, सुमित: एवं प्रियांशु: संयुक्तरूपेण लम्बितकूर्दनप्रतियोगितायां बालकवर्गे प्रथम:, आर्य: द्वितीय: कनिष्क: तृतीय:, सोनम: बालिकावर्गे तस्यामेव प्रथमा, दिव्यांशी द्वितीया साक्षी तृतीया, उच्चकूर्दनप्रतियोगितायां आयुष: प्रथम: बालकवर्गे, प्रियांशु: द्वितीय: गौरव: तृतीय: बैडमिंटनप्रतियोगितायां, बालकवर्गे नैतिक: रोशन: प्रथम:, निशांत: सौरभ: द्वितीय:, नमन: राहुल: तृतीय:, बालिकावर्गे भूमिका पारुलप्रथमा, खुशी आराध्या द्वितीया, पूजा अवनी तृतीया आसन् । प्रतियोगितायां बालकेषु एवं अष्टमवर्ग: विजयी खो-खोप्रतियोगितायां च षष्ठकक्षाया: बालिकानां वर्ग: विजयी अभवत् । सोनूकुमारप्रजापति:, अनिलभटनागर:, रोहितबलोदी, राहुलभाटिया निर्णायकपदे आसन् । ३० मे दिनाङ्के वरिष्ठवर्गस्य प्रतियोगिताः भविष्यन्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button