संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देशसंस्कृत भारती

उत्तरतमिल्नाडु-दक्षिणतमिल्नाडु-केरल-प्रान्तानां अभवत् समीक्षामेलनं

प्रतिवर्षं प्रान्तस्य कार्याणाम् अवलोकनार्थं आगामिवर्षस्य योजनार्थं च समीक्षामेलनम् आयोज्यते। अस्मिन् वर्षे प्रान्तस्य समीक्षामेलनं तमिल्नाडुराज्यस्य महादानपुरग्रामस्य भाष्यम् इति शिक्षणकेन्द्रे आयोजितम्। भाष्य-शिक्षणकेन्द्रं संस्कृतभारत्याः दक्षिणतमिल्नाडुप्रान्तस्य विभिन्नवर्गाणाम् आयोजनार्थं निर्मितं केन्द्रम्। अस्मिन् वर्षे तस्मिन् केन्द्रे दक्षिणक्षेत्रस्य प्रान्तानाम् अर्थात् उत्तरतमिल्नाडु-दक्षिणतमिल्नाडु-केरल-प्रान्तानां समीक्षामेलनं मीनमासस्य कृष्णपक्षद्वितीयातः तृतीयापर्यन्तम् (2023 एप्रेल्-मासस्य 8, 9-दिनाङ्कयोः) सञ्जातम्।
मेलने उपस्थिताः आसन् अखिलभारतीयाधिकारिणः –
1. श्रीमान् जयप्रकाशमहोदयः, अखिलभारत-सहसङ्घटनमन्त्री
2. श्रीमान् दत्तात्रेयवज्रहल्ली-महोदयः, अखिलभारत-अभिलेखप्रमुखः
3. श्रीमान् श्रीराममहोदयः, अखिलभारत-सहप्रचारप्रमुखः

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button