संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
कण्वनगरीकोटद्वार

जीवने प्रतिक्षणं परीक्षाः भवन्ति- “कुंजबिहारीभट्ट:”

रितेशशर्मासरस्वतीविद्यामन्दिरजानकीनगरकोटद्वारे वार्षिकपरीक्षापरिणामवितरणस्य सम्पूर्ति:

• जीवनस्य परिणामं अस्माभिः सर्वोच्चस्थानं प्रति आनेतव्यम्- “प्रधानाचार्य: लोकेन्द्र-अण्थ्वाल:”

कोटद्वार। रितेशशर्मासरस्वतीविद्यामंदिर-इण्टर-कॉलेजजानकीनगरकोद्वारे वार्षिकपरीक्षापरिणामवितरणसमारोह: आयोजित: अभवत्। कार्यक्रमाध्यक्षा मीनाक्षीशर्मा, राधेश्यामशर्मा, प्रधानाचार्य: लोकेन्द्र-अण्थवाल:, कुलदीपमैन्दोला व प्रधानाचार्य: कुंजबिहारीभट्ट: मातृसरस्वतीसमक्षे दीपप्रज्ज्वालनं कृतवन्त: ।

प्रधानाचार्य: कुंजबिहारीभट्ट:मुख्यातिथिरूपेण उक्तवान् यत्
निरन्तरपरिश्रमेण च या सफलता प्राप्यते तस्य परिणामं जगत् पश्यति। भगीरथस्य सन्तति: आकुले परिश्रमं कृत्वा गंगां आनयत्, अद्य सर्वं जगत् जानाति। सर्वेषां समानं परिणामं न भवति। अधुना ये अभ्यर्थिनः शतप्रतिशतम् अङ्कं प्राप्नुवन्ति ते सर्वत्र प्राप्यन्ते। संकल्पः जीवितः भवेत्। जीवने प्रतिक्षणं परीक्षाः भवन्ति। सर्वेभ्यः अस्माकं शुभकामना

कार्यक्रमाध्यक्षया मीनाक्षीशर्मावर्यया अत्र सम्बोधितं यत् अस्य विद्यालयस्य बालिका: प्रथमस्थानं प्राप्तवत्य: या विशेषा उपलब्धिः अस्ति। अस्माकं जीवने अनेकपरीक्षासु अपि अस्माकं जीवनस्य अनेकपरीक्षाः गन्तव्याः सन्ति। वयम् अग्रेपि सर्वत्र सफला: भवाम:

प्राचार्यः लोकेश-अण्थ्वालः अवदत् यत् शिक्षकाणां बहुप्रयत्नेन बालकेषु या सफलता दृष्टा सा प्रशंसनीया अस्ति। सम्पूर्णवर्षस्य परिणामः प्रथमस्थानं प्राप्तुं शक्नोति, परन्तु जीवनस्य परिणामं अस्माभिः सर्वोच्चस्थानं प्रति आनेतव्यम्। सः श्रेणीप्राप्तानां छात्राणां बालकानां च कृते पुरस्कारं दत्तवान् ये विशेषसाधनानि प्राप्तवन्तः।

अवसरेस्मिन् कुलदीपमैन्दोला छात्राणां मार्गदर्शनं कृत्वा उक्तवान् यत् श्रद्धावाॅंल्लभते ज्ञानं, ज्ञानं गुरुभ्यः पुस्तकेभ्यः च लभ्यते, परन्तु ज्ञानं केवलं श्रद्धया एव प्राप्यते। जीवने लक्ष्यं प्राप्तुं ज्ञाने विश्वासः आवश्यकः।

परीक्षापरिणामे विद्यालये छात्रेषु षष्ठकक्षायां पूजा , केशव:, आस्था प्रजापति:, सप्तमकक्षायां विभूति:, आयुषरावत: व गरिमानेगी, अष्टमकक्षायां प्रियंका-अग्रवाल:, दीप्ती, व्योमलखेड़ा, नवमकक्षायाम् अभिषेक: आदर्श:, दियागुसांई, एकादशकक्षायां मोहितनेगी सलोनीचंद्र:, सुहानी नेगी, सार्थकडुकलाण: क्रमशः प्रथमद्वितीयतृतीयस्थानं प्राप्तवन्त: । अनेनैव सह सृष्टिलखेड़ा, गौरव-अग्रवाल:, गौरव: अग्रवाल:, अंशुकुमार: शत-प्रतिशत् उपस्थितिनी पुरस्कृता: अभवन् । कार्यक्रमस्य संचालनं राजनकुमारः रोहितबालोदी च कृतवन्तौ । अस्मिन् अवसरे विद्यालयस्य समस्त-आचार्या: अध्यापिका: उपस्थिताः आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button