संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
गुजरात

“आधुनिकपरिप्रेक्ष्ये संहितास्कन्धस्य प्रासङ्गिकता”इत्यस्मिन् विषये “अन्ताराष्ट्रियज्योतिष-वेबिनार” इति कार्यक्रम:

गुजरात। श्रीसोमनाथ-संस्कृत-विश्वविद्यालय IQAC, अनुस्नातकविभागः तथा विश्वविद्यालयद्वारा संचालित-संस्कृत-महाविद्यालयः इत्येतेषां संयुक्ततत्वावधाने 29/03/2023 तमे दिनाङ्के “आधुनिकपरिप्रेक्ष्ये संहितास्कन्धस्य प्रासङ्गिकता” इति समाजोपयोगी विषयमुपादाय अन्ताराष्ट्रिय- ज्योतिषविषयक-वेबिनार इति कार्यक्रमः सत्रद्वयेनानुष्ठितः । कार्यक्रमस्य उद्घाटनसत्रे मुख्यातिथित्वेन काशी-हिन्दु-विश्वविद्यालयस्य ज्योतिषविभागाध्यक्षचरः प्रो. विनयकुमारपाण्डेयवर्यः, विशिष्टातिथित्वेन च नेपालसंस्कृतविश्वविद्यालयस्य ज्योतिषाचार्यः डॉ. नवीनकुमार झा महोदयः सम्प्राप्तौ आस्ताम्। सत्रेऽस्मिन् श्रीसोमनाथ-संस्कृत-विश्वविद्यालयस्य माननीयः कुलपतिः प्रो॰ललितपटेलमहोदयः आध्यक्ष्यम् ऊढवान्।
उद्घाटनसत्रस्य आरम्भे ज्योतिषविभागस्य छात्रः अमनशुक्ला वैदिकं मङ्गलमाचरितवान्। ततः कार्यक्रमे समवेतानां महानुभावानां परिचयपुरस्सरं शाब्दिकं स्वागतं कृत्वा कार्यक्रमस्य भूमिकामुपस्थापितवान् ज्योतिषविभागस्य सहायकाचार्यः डॉ. नित्यानन्द ओझा महोदयः। प्रथमसत्रेऽस्मिन् चत्वारः शोधपत्रप्रस्तोतारः स्वीयानी शोधपत्राणि पठितवन्तः। अनन्तरं विशिष्टातिथिमहोदयेन डॉ. नवीनकुमार झावर्येण प्रासङ्गिकमुद्बोधनमकारि। ततः परं मुख्यातिथिमहोदयः प्रो. विनयकुमारपाण्डेयवर्यः सामाजे ज्योतिषशास्त्रसम्बन्धितविद्यमानभ्रान्तिं दूरीकृत्य आधुनिकपरिप्रेक्ष्ये संहितास्कन्धस्य प्रासङ्गिकतामप्रकटयत्। ततः परं श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य कुलपतिवर्यः प्रो. ललितकुमारपटेलमहोदयः आध्यक्षीयोद्बोधनमकरोत्। सत्रान्ते ज्योतिषविभागस्य सहायकाचार्यः डॉ॰ रमेशचन्द्रशुक्लमहोदयः सर्वान् महानुभावान् प्रति धन्यतावचांसि प्राकटयत्। अस्य उद्घाटनसत्रस्य सङ्चालनं ज्योतिषविभागस्य सहायिकाचार्या श्रीमती अपूर्वा अग्रवाल महोदया अकार्षीत्। कार्यक्रमस्यास्य फेसबुकमाध्यमेन प्रत्यक्षप्रसारणमपि अभवत्।
अन्ताराष्ट्रिय-ज्योतिषविषयक-वेबिनार इति कार्यक्रमस्य द्वितीयसत्रस्य आध्यक्ष्यं जम्मूस्थस्य केन्द्रियसंस्कृतविश्वविद्यालय, रणवीरपरिसरस्य ज्योतिषशास्त्रविद्याशाखायाः आचार्यः प्रो. श्यामदेवमिश्रमहोदयः ऊढवान्। सत्रेऽस्मिन् 18 शोधपत्रवाचकैः विविधाः प्रासंगिकविषयाः उपस्थापिताः । सम्पूर्णे वेबिनार-क्रार्यक्रमे आहत्य 22 शोधपत्राणि पठितानि । द्वितीयसत्रस्यान्ते ज्योतिषविभागस्य सहायकाचार्येण डॉ॰ रमेशचन्द्रशुक्लमहोदयेन सर्वेषां धन्यवादः आचरितः । पूर्णतामन्त्रेण कार्यक्रमस्य समापनं जातम् । सत्रस्यास्य सङ्चालनं डॉ. नित्यानन्द ओझा महोदयः अकरोत् । अस्य अन्ताराष्ट्रिय-ज्योतिष-वेबिनार इति कार्यक्रमस्य संयोजनं डॉ॰ रमेशचन्द्रशुक्लमहोदयः, डॉ. नित्यानन्द ओझा महोदयः, श्रीमती अपूर्वा अग्रवाल महोदया च कृतवन्तः।
ऑनलाईन वेबेक्स माध्यमेन समायोजिते कार्यक्रमेऽस्मिन् श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य माननीयः कुलपतिचरणः, मुख्यातिथिमहोदयः, विशिष्टातिथिमहोदयः, अनुस्नातकविभागाध्यक्षः, प्राचार्यः, सर्वेऽपिप्राध्यापका:, शोधपत्रवाचकाः, प्रतिभागिनः, ज्योतिषविभागस्य छात्राश्च समुपस्थाय कार्यक्रमोऽयं सफलं कृतवन्तः । फेसबुक माध्यमेनापि बहवः जना: कार्यक्रमममुं दृष्ट्वन्तः।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button