संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डहरिद्वार

संस्कृतशोधच्छात्रस्य सम्मानसमारोहस्य समापनम्

• संस्कृतभाषा भारतीयचिन्तनस्य वैज्ञानिकपरम्परायाः च आधारः अस्ति–“कुलपति: दिनेशचन्द्रशास्त्री”

• मानवमूल्यानां, संस्कृते: , सभ्यतायाः, संस्कारस्य च रक्षणं केवलं संस्कृतस्य प्रचारेण एव कर्तुं शक्यते–“सचिव:शिवप्रसादखाली”

।हरिद्वार। उत्तराखण्ड-संस्कृत-अकादमी इत्यनेन संस्कृतस्य प्रवर्धनं अनुसन्धानप्रवर्धनं च उद्दिश्य 29 मार्च 2023 दिनाङ्के संस्कृतशोधच्छात्रसम्मानसमारोहः आयोजितः। कार्यक्रमस्य मुख्यातिथिः उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलपतिः प्रो. दिनेशचन्द्रशास्त्री उक्तवान् यत् संस्कृतभाषा भारतीयचिन्तनस्य वैज्ञानिकपरम्परायाः च आधारः अस्ति। अस्माकं मुनिभिः कृतं चिन्तनं जगतः कृते संशोधनस्य आधारः एव तिष्ठति। शोधछात्रान् सम्बोधयन् सः अवदत् यत् संस्कृतस्य विकासाय अस्माकं अधिकदायित्वम् अस्ति, अतः अस्माभिः शोधसंकलनं न करणीयम्, अपितु वास्तविकतथ्यसंशोधनं कर्तव्यं भविष्यति। उत्तराखण्ड-संस्कृतअकादमी-शोधछात्राणां सम्माननं प्रशंसनीयं कार्यम्, अकादमी प्रत्येकस्मिन् क्षेत्रे स्तरे च संस्कृतस्य विकासाय कार्यं कुर्वती अस्ति। देशे कोऽपि अकादम्या: इव शोधविद्वांसं प्रोत्साहयितुं प्राय: नान्य: ।

अकादमीसचिवेन शिवप्रसादखालीवर्येण उक्तं यत् संस्कृतं भारतीयज्ञानपरम्परायाः, भारतीयज्ञान-विज्ञानस्य, मानवमूल्यानां, संस्कृते: , सभ्यतायाः, संस्कारस्य च रक्षणं केवलं संस्कृतस्य प्रचारेन एव कर्तुं शक्यते। संस्कृतस्य विकासाय युवानः अग्रे आगत्य संस्कृते संशोधनं कर्तुं प्रवृत्ताः भविष्यन्ति। समाजस्य आवश्यकतानुसारं अपेक्षानुसारं योजनाः करणीयाः भवन्ति। अधुना प्रथमवारं अकादमीद्वारा शोधस्य प्रचारः संजायते।

०६ सामान्यश्रेणीशोधच्छात्रै: एवं च ०३आरक्षितसहितम् आहत्य ०९ प्रत्येकशोधच्छात्रै: प्राप्तं ३०,०००₹ छात्रवृत्तिश्च प्रमाणपत्रं । अकादमीद्वारा प्रथमवारं सम्मानितेषु हेमवतीनन्दनबहुगुणागढ़वालकेन्द्रीयविश्वविद्यालयत: आजादजुयालः, गुरुकुलकाङ्गडीविश्वविद्यालयस्य भावना च ज्योतिरानीराठौर: , उत्तराखण्डसंस्कृतविश्वविद्यालयत: करुणागुप्ता , सोबनसिंहजीनाविश्वविद्यालय-अल्मोडात: रोहितपन्तः, हरीशचन्द्रः च सन्ति । आरक्षितशोधच्छात्रेषु सोबनसिंहजिनाविश्वविद्यालय-अलमोडात: सपना श्वेताकुमारी च, नैनीतालस्य ‘कुमाऊ’-विश्वविद्यालयस्य कैलाशविजल्वाण: च सम्मानिता: अभवन्।

कार्यक्रमं उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलसचिव: गिरीशकुमार अवस्थी, संस्कृतनिदेशालयस्य उपनिदेशकः पद्माकरमिश्रः, संस्कृतशिक्षापरिषदः सचिवः डॉ. वाजश्रवा आर्यः अपि सम्बोधितवान्। समागतानां धन्यवादज्ञापनं अकादम्या: कोषाध्यक्ष: सत्येन्द्रप्रसादडबराल: च एवं कार्यक्रमस्य संचालनं एवं समन्वयं शोधाधिकारी डॉ. हरीशचन्द्रगुरुरानी कृतवन्तौ।

कालेस्मिन् प्रकाशनाधिकारी किशोरीलालरतूडी, प्रशासनिकाधिकारी लीलारावत:, सहायकपुस्तकालयकर्मी रामकठैत:, सहायकलेखाधिकारी हरीशनाथ:, डॉ. बलदेवप्रसादचमोला, डॉ. प्रकाशचंद्रजोशी, डॉ. नवीनपंत:, मोनिका आर्या, गणेशफोंदणी आदय: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button