संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
कण्वनगरीकोटद्वार

हरितसेनादेवभूमि-उत्तराखण्डेन समाचरितं एकदिवसीयशिविरं

वृक्षा: स्थापिता: भविष्यन्ति एव,
प्रथमं ये रोपिता: तत्संरक्षयन्तु,
कथं नु सुन्दरं प्रकृतिश्च तस्यैव सम्मानं कुरु । अनया भावनया एकदिवसीयशिविरस्य आयोजनं हरितसेनादेवभूमि-उत्तराखंडस्य स्वयंसेवकै: कृतं। रविवासरे 26 फरवरी, 2023 दिनांके राजकीयस्नातकोत्तरमहाविद्यालयकोटद्वारे परिसरे गढ़वालीस्वलिखितपंक्तिभिस्सह अभिव्यक्तिरूपेण कार्यक्रम: समारभत् पर्यावरणं तथा तत्सम्बद्धानां समस्यानां समाधानविषये चर्चां कर्तुं एकस्मिन् दिवसीयशिबिरे “ग्रीन-आर्मी-देवभूमि-उत्तराखण्ड: इत्यस्य अध्यक्षः शिवमनेगी स्वयंसेविभ्यः अवदत् यत् पर्यावरणसंरक्षणं समाजाय अतीव महत्त्वपूर्णम् अस्ति। पर्यावरणसंरक्षणस्य महत्त्वं प्राप्तुं भवति समाजस्य प्रत्येकवर्गत:, सः सर्वेभ्यः स्वयंसेवकेभ्यः पर्यावरणसंरक्षण-अभियानस्य भागं ग्रहीतुं आह्वानं कृतवान् । एतेन सन्देशेन परमसेवकानां पर्यावरणं प्रति समर्पणं विचार्य सर्वेभ्यः स्वयंसेविकेभ्यः आगामिशिबिराणां विषये सूचितम्। शिविरेस्मिन् हरितसेनादेवभूमि-उत्तराखण्डस्य अध्यक्ष:, शिवमनेगी, कोषाध्यक्ष: उत्कर्षनेगी, मार्गदर्शक: संजयसजवाण:, स्वयंसेवक: ज्योतिसजवाण:, पूजाबेलवाल:, सत्येन्द्रगुंसाई, सौरवधूलिया, आयुषगुप्ता, रोहित:, संदीपरावत:, दीपनारायण:, राजामैन्दोला आदय: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button